________________
जयोदय-महाकाव्यम्
[१४४-४५
प्रफुल्लवदनेन प्रसन्नमुखेन सजानिना प्रियासहितेन तेन सुपर्वणा देवनागत्य सजानिः प्रियासहित एष जयकुमारः समपूजि पूजितोऽभूदिति । योऽत्र ब्रह्मणा शीलेन महितोऽचितः स. के मातेऽपि तु सर्वैर्मह्यते । अर्थान्तरन्यासः ॥१४॥ गच्छन् वै सह तीर्थवेशमनयाऽसौ हंसगत्याखिलं
जन्मानर्घमथ वजन्नमलहृत्प्रालब्धबोधोऽवनेः । पुण्यात् प्रापितविद्य एवमनिशं प्राणप्रियः पूजितुं
तुष्टया प्रागमयज्जयः सुपुरुषो रहोऽपनेतुं स तु ॥१४४॥ गच्छन्नित्यादि-पुण्यात् प्रापितविद्यः प्रालब्धबोधोऽवनेः प्राणप्रियः प्रजाया वल्लभो जयो नाम सुपुरुषोऽमलहन्निर्मलान्तःकरणस्तुष्ट पा प्रसन्नभावेनासौ चरितनामकोऽनया हंसगत्या सुलोचनया सहाखिलं तीर्थदेशं पूजितु गच्छन् वे नियमेन रहो गृहस्थाश्रमजनितमानुषङ्गिकमपराधमपनेतुमनिशं सर्वमपि दिनं प्रागमयत् संव्यतीतवान् । एतस्य चक्रबन्धस्यः प्रत्यग्राक्षरैः षष्ठाक्षरैश्च गजपुरनेतुस्तीर्थविहरणमिति सर्गविषयनिर्देशः ॥१४४॥
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं
वाणीभूषणगिनं घृतवरी देवी च यं धीचयम् । काव्ये तद्गविते निरेति च चतुर्विशः पुनीताशयः
श्रीवीरोदयसोदरेऽतिललिते सर्गोऽरिदुर्गेऽप्ययम् ॥१४५॥ श्रीमानित्यादि-श्रीवीरोदयकाव्यं ग्रन्थकर्ता रचितं सहोदरो यस्य तस्मिन्, अरिदुर्गेऽरयः प्रतिस्पद्धिनो बुधास्तेषां दुःखेन गन्तुं शक्यं तस्मिन् । शेषं पूर्ववत् ॥३४५।। सहित आकर सुलोचना सहित जयकुमारकी पूजा की, सो ठीक ही है। जो ब्रह्मचर्यशीलवतसे पूजित है, वह किनके द्वारा पूजित नहीं होता? अर्थात् सभीके द्वारा पूजित होता है ॥१४३।।
अर्थ-तदनन्तर जो अनर्घ-अमूल्य जन्मको प्राप्त थे, जिनका हृदय निर्मल था, जिन्हें अवधिज्ञान प्राप्त हुआ था और पुण्यसे जिन्हें पूर्वभवकी विद्याएँ प्राप्त हुई थीं, ऐसे पृथ्वीपति जयकुमार सत्पुरुषने हंसके समान गतिवाली सुलोचनाके साथ पूजा करनेके लिये तीर्थप्रदेशोंकी यात्रा को तथा गृहस्थाश्रम के पापको दूर करनेके लिये निरन्तर प्रयत्नशील रहते हुए संतोषपूर्वक समय व्यतीत. किया ॥१४४॥ इति श्रोवाणीभूषणब्रह्मचारिभूरामलशास्त्रिविरचिते जयोदय
महाकाव्ये चतुर्विशः सर्गः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org