________________
जयोदय-महाकाव्यम्
[१३३-१३५ इत्यादिवेदवाक्यैरमुकमनोऽमरवरप्रसादाय । काममखं सा विदधे निजशक्त्यानानुयोगमयम् ।।१३३।। इत्यादीत्यादि-सा देवता तत्र गतो भवान्' इत्यादिभिर्वेदवाक्यैः कामोत्पादकवचनैरमुकस्य जयकुमारस्य मन एवामरवरी देवाधिपस्तस्य प्रसादाय प्रसत्तये निजशक्त्या यथात्मशक्ति अङ्गस्य स्वशरीरस्यानुयोगः प्रेरणं तन्मयं यद्वाङ्गस्यानन्दस्यानुयोगमयं काममखं स्मरयज्ञं विदधै कृतवती। 'अङ्ग संबोधनेऽसख्यं पुनरर्थप्रमोक्योः' इति विश्वलोचने । रूपकोऽलंकारः ।।१३३॥
प्रखरैः शरैरिवामुं भिन्दन्ती सुन्दरी दुगन्तैः सा । स्मरशासनवत् सघनं जघनं समवर्शयत्तावत् ॥१३४॥ प्रखरैरित्यादि-प्रखरैस्तीक्ष्णैः शरैर्बाणरिव दगन्तः कटाक्षेरमं जयं भिन्दन्ती सा सुन्दरी देवी स्मरशासनवत् कामदेवाज्ञापत्रमिव सघनं स्थूलं जघनं जघनस्थलं तावत् समदर्शयत् प्रकटयामास ।।१३४॥
सैषाभ्यञ्चति निम्नगा प्रथमतः फेनायमानं स्मितं पश्चान्निर्मलनीरनिर्झरनिभेऽस्याः समानेऽशुके । सद्योऽप्यभ्युदियाय कामिरमणद्वीपप्रतीपः स्तनो व्यक्तोऽतो वलिबद्धनाभिकुहरः कल्लोलितावर्तवत् ॥१३५॥ सैषेत्यादि-एषा निम्नगा निम्नाचारवतीत्यतो निम्नगा नदीवातः प्रथमतस्तावत् फेन इवाचरतीति फेनायमानं स्मितमीषद्धसितं तदभ्यञ्चति स्म प्रसारयामास । तत्पश्चाबस्या निर्मलनीरस्य निर्झरः प्रवाहस्तस्य निभा प्रभेव निभा यस्य तस्मिन्नंशुके वस्त्रे
अर्थ-'उस देवताने' इत्यादि वेद वाक्योंके द्वारा जयकुमारके मनरूपी श्रेष्ठ देवको प्रसन्न करनेके लिये अपनी शक्तिके अनुसार स्वशरीरकी प्रेरणारूप कामयज्ञ किया ॥१३३।। __ अर्थ-तीक्ष्ण बाणोंके समान कटाक्षोंसे जयकुमारको भेदतो हुई उस सुन्दरीदेवीने कामदेवके आज्ञा पत्रके समान स्थूल जघनभाग दिखलाया-प्रकट किया ॥१३४॥
अर्थ-वह देवी निम्न आचार वाली होनेसे निम्नगा-नदीके समान थी। सबसे पहले उसने फेनके समान आचरण करने वाली मन्द मुसक्यान प्रकट की, पश्चात् स्वच्छ जलके झरनेके समान इसका वस्त्र खिसकने पर शीघ्र ही कामी
Jain Education International
For Private & Personal Use Only
www.jsinelibrary.org