________________
१११८ जयोदय-महाकाव्यम्
[.८४-८५ तदागसामित्यादि-तदा जपावसरेऽनुषङ्गजन्मिनां प्रसङ्गतः प्राप्तानामागसामपराधानां संहरणं परिहारमभिलषतीति तस्य पयोजलक्ष्मीमुषि कमलशोभापहारके पाणिपल्लवे जयकुमारस्य हस्ते रुद्राक्षाणां परम्परा पङ्क्तिः षडज्रिमाला भ्रमरततिहीव रराजतरामित्युत्प्रेक्षालंकारः ॥८॥ बभाज भाजन्मभुवं तु बन्धुरं स्वरिन्दिराकृष्टिकृतः करं वरम् । सुशिक्षितुं लोहितिमानमुच्चकैः प्रवालवालावलिरेनसां रिपोः ॥८४॥
बभाजेत्यादि-एनसां पापानां रिपोः सहजशत्रोः स्वरिन्दिरायाः स्वर्गलक्ष्म्या आकृष्टि समाकर्षणं करोति यस्तस्य जयकुमारस्य भायाः शोभाया जन्मन उत्पत्त वं स्थानं तत एव वरं बन्धुरं मनोहरं करं प्रवालस्य विद्वमस्य बालाः संबालका अंशास्तेषामावलिः सा किलोच्चकर्लोहितिमानं निर्दोषरक्तिमानं सुशिक्षितु समपालब्धु बभाजानीचकारेत्युत्प्रेक्षालंकारः ॥८॥ प्रपञ्चशाखौ ग्रहणौ जयस्य तौ गुणेन बद्धौ तु विभोर्बभूवतुः। भयाकुलेवेत्यपि भारती तदा तदात्मिका सा निरगात् स्वसमतः ॥८॥
प्रपञ्चशाखावित्यादि-जयस्य ग्रहणो हस्तौ यो प्रकृष्टाः पञ्च पञ्च शाखा अगुलयो ययोस्तो प्रपञ्चशाखो प्रतारणात्मकाविति तो विभोरहतो गुणेन क्षमासत्पादिरूपेण रज्ज्वा वा बद्धो बभूवतुरितीवापि तदात्मिका प्रपञ्चात्मिका या विचारशीला जयस्य भारती सापि तदा भयाकुलेव भयभीता भवतीव स्वसग्रतो मुखान्निरगावित्युत्प्रेक्षालंकारः ॥८५॥ __ अर्थ-जपके समय आनुषङ्गिक अपराधोंके परिहारकी इच्छा करनेवाले जयकुमारके कमलतुल्य पाणिपल्लवमें रुद्राक्षकी माला ऐसी सुशोभित हो रहो थी, मानों भ्रमरोंकी पङ्क्ति ही आ लगी हो ॥८३।। ____ अर्थ-पापोंके सहज शत्रु एवं स्वर्गलक्ष्मीको आकृष्ट करनेवाले जयकुमारके शोभाकी जन्मभूमि रूप अत एव उत्तम और मनोहर हाथको विद्रुम खण्डोंकी मालाने मानों उच्चतम लालिमाको सीखनेके लिये ही स्वीकृत किया था ||४|| ____अर्थ-प्रपञ्चशाख-पाँच-पाँच अङ्गुलियोंसे सहित (पक्षमें प्रपञ्च-प्रतारणाको विस्तृत करनेवाले) जयकुमारके हाथ भगवान्के क्षमा-सत्य-संयमादि गुणोंसे (पक्षमें रस्सीसे) बद्ध हो गये-बांध दिये गये, यह देख प्रपञ्च-प्रतारणा (पक्षमें विस्तार) करने वाली उनकी वाणी भी भयभीत होकर मुखरूप घरसे धीरे-धीरे निकल रही थी।
भावार्थ-जयकुमारने जापके बाद दोनों हाथ जोड़कर मन्द स्वरसे कुछ पाठ पढ़ा, इसीका कविने उत्प्रेक्षालंकारसे वर्णन किया है ॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org