________________
२२-२४] चतुर्विंशः सर्गः
१०९३ क्वचिन्महालीलमणिप्रभाभरे जलाकुलाम्भोदसमूहशङ्कया। अकाण्ड एवाथ शिखण्डिमण्डलस्तनोति नृत्यं मृदुमोदमेदुरः ।।२२।।
क्वचिदित्यादि-अकाण्ड एवावसराभावेऽपि मोदमेदुरः पुलकितः। शेष स्पष्टम् ॥२२॥ स्फुरन्ति नित्यं सुमणीमरोचयोऽमरीचयोऽपत्रपतां श्रयत्यतः । निजप्रसङ्गेऽपि निजासुपर्वणां सुपर्वणां यस्य गुहासु निष्ठितः ॥२३॥ ___स्फुरन्तीत्यादि-यत्र नित्यं सुमणीनां रत्नानां मरीचयः किरणाः स्फुरन्ति, अतस्तत्र यस्य गुहासु सहजमणिमयप्रकाशयुक्तासु गुहासु निष्ठितः स्थितोऽमरीणां देवीनां चयः समूहो निजासुपर्वणां निजेभ्योऽसुभ्यः प्राणेभ्य: पर्व महोत्सवो यैस्तेषां सुपर्वणां देवानां निजप्रसङ्गे समुचितसंसर्गेऽपि किलापत्रपतां लज्जालुभावं श्रयन्ति । यमकालंकारः ॥२३॥ इतस्ततः सच्चामरीचय च्छलात् सुचारुनीहारविहारभासुरम् । परिभ्रमन्मतिमदुत्तमं यशो बिति नित्यं धरणीधरेश्वरः ।।२४।।
इतस्तत इत्यादि-इतस्ततः सतीनां चमरीणां वनगवां चयस्य संग्रहस्य च्छलात् नोहारस्य तुषारस्य विहारः प्रसरणं तदिव भासुरं रमणीयं सुचारु मनोहरं परिभ्रमत् सर्वतो गच्छत् सन्मूर्तिमदुत्तमं निर्दोषं यशो नित्यं बिति धरणीधरेश्वरोऽयमिति । अपह्न त्यलंकारः ॥२४॥
के द्वारा स्वयं समागत मेघमण्डलमें इन्द्रधनुष की मनोहर शोभाको विस्तृत करता रहता है ॥२१॥
अर्थ-कहीं महानील मणियोंकी प्रभाके समूहमें सजल मेघसमूहकी शङ्कासे मयूरोंका समूह आनन्दसे पुलकित होता हुआ असमयमें ही कोमल नृत्य करता है ॥२२॥ ___ अर्थ-जिस कैलास पर्वतकी गुफाओंमें निरन्तर उत्तम रत्नोंकी किरणें देदीप्यमान रहती हैं, अतः उनमें स्थित देवियोंका समूह स्वकीय प्राणोंसे प्रिय देवोंके स्वसमागममें भी लज्जाका अनुभव करता है ।।२३।।
अर्थ-जो श्रेष्ठ पर्वत इधर-उधर विद्यमान सुरा गायोंके छलसे सुन्दर बर्फके प्रसारके समान शोभासे युक्त चलते-फिरते मूर्तिमान् यशको निरन्तर धारण करता है ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org