________________
१०९० जयोदय-महाकाव्यम्
[१४-१५ स्म राजत इत्यादि--अनापदी किलापत्तिविजितः स जयकुमारः स राजतपर्वतान् रजताचलान् यजन् पूजयन् राजते स्म । कीदृशास्तानिति चेत् ? सुरा देवा असुरास्तदन्ये नरादयस्तैः सर्वैराराध्यं पदं स्थानं येषाँस्तान्, स्वस्य नाम्नो या वृत्तिः प्रवर्तनं तदर्द्धतया विजया॰परनामतयाऽतिवल्लभान्, घरैव वधूस्तस्या हासस्य विलासा इव विलासास्तैर्भासुरान् परमशुक्लवर्णामिति । अनुप्रासोऽलंकारः ॥१३॥ द्विदन्तदन्तान् स्म स वन्दते मुदामुदारवक्षारगिरीनुताश्रयः। श्रयन्निपूर्वीधरणान् दयापरः परत्र तीर्थेऽपि च सन्वधद्विवम् ॥१४॥
द्विदन्तेत्यादि-स दयापरोऽहिंसाधर्मरतो जयकुमारो द्विवन्तवन्तान् गजवन्तपर्वतान् वन्दते स्म, पुनर्मुदामाश्रयो हर्षसंयुतस्सन् उदारान् वक्षारगिरीन् श्रमन् वन्दनाश्रयान् कुर्वन् पुनरिपूर्वीधरणानिष्वाकारपर्वतानपि श्रयन् सन् परत्रापि तोर्थे विवं स्वबुद्धि सन्दधत् वन्दते स्म । एवं सार्द्धद्वयद्वीपमध्ये सर्वानपि तीर्थाननुजग्राहेति तात्पर्यार्थः । सिंहावलोकनानुप्रासः ॥१४॥ धराधवोऽवन्दत मानुषोत्तरं जगत्प्रसिद्धाखिलमानुषोत्तरः। महीभृतं सत्कटकानुकारिणं सधर्मभावादिव वल्लभं विदन् ॥१५॥
धराधव इत्यादि-जगत्प्रसिद्धष्वखिलेषु मानुषेषूत्तरः श्रेष्ठः स धराया धवः स्वामी जयकुमारो मानुषोत्तरं नाम महीभृतं पर्वतं समीचीनस्य कटकस्य नाम कङ्कणस्योत सैन्यदलस्यानुकारिणमाकारधारिणं पक्षेऽनुग्रहकारिणं नायकं तावदेवंरीत्या सधर्मभावात्तुल्यत्वादिव वल्लभं विदन् जानन तथा श्रयन्निति वा पाठः सोऽवन्दत तम् । उत्प्रेक्षालंकारः ॥१५॥
___ अर्थ-अनापदी-आपदाओंसे रहित जयकुमार उन रजताचलोंकी पूजा करते हुए सुशोभित हो रहे थे जिनके कि स्थान सुर-असुरोंके द्वारा पूजनीय हैं, जो विजयार्द्ध नामसे लोकप्रिय हैं तथा पृथिवीरूपी स्त्रीके हासके समान अत्यन्त शुक्ल वर्ण हैं ॥१३॥
अर्थ-हर्षके आधारभूत दयालु जयकुमारने गजदन्त पर्वतों, विशाल वक्षारगिरियों, इष्वाकार पर्वतों तथा अढ़ाई द्वीपमें विद्यमान अन्य जिन-चैत्यालयोंकी वन्दना की ॥१४॥ ____अर्थ-जगत्प्रसिद्ध समस्त मनुष्यों में श्रेष्ठ राजा जयकुमारने उस मानुषोत्तर पर्वतको वन्दना की जो सत्कटकानुकारी-उत्तम सैन्य दलका अनुकरण करने वाला था (पक्षमें समीचीन शिखरोंको स्वीकृत करने वाला था)। जयकुमार उस पर्वतको अपनी तुल्यताके कारण मानों प्रिय जानते थे ॥१५॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only