________________
चतुर्विशः सर्गः अथात्र विद्या विशदा नियोगिनीः क्रियां प्रशस्तां सुरतोपयोगिनीम् । प्रभावितुं भावितमानसोऽभवन्नवा इवासाद्य स वा भुवां धवः ॥१॥
अथात्रेत्यादि-अथात्र स वा भुवां धवः श्रीजयकुमारो नियोगिनीस्तेन सह नियोगो यासां ताः, विशदा निर्दोषचरित्रा विद्या नवा इवासाद्य समुपलभ्य सुरताया देवभावस्याकाशे गमनादेरुपयोगो यस्यां तां तथा सुरतस्य रतिक्रीडाया उपयोगो यस्यां तां प्रशस्तां कामिभिविद्याधरैश्च इलाध्यां क्रियां प्रभावितु समुद्योतयितु यद्वा प्रवेवितुमिति पाठस्तपेक्षयानुभवितु भावितं परिणतं मानसं यस्य सोऽभवत् । समासोक्तिरलंकारः ॥१॥ अमूः समासाद्य चमूपतिः किलाधरप्रदेशे रमते स्म नित्यशः । सलोलमुच्चस्तनपर्वतेष्वसौ यदृच्छया सज्जघनस्थलीष्वपि ॥२॥
अमूरित्यादि-चमूपतिदिग्विजयकाले भरतचक्रिणः सेनापतिर्जयकुमारोऽभूतियोगिनोविद्याः समासाद्याङ्गीकृत्य नित्यशः प्रतिदिनमसौ सलील लीलासहितं यथा स्यात्तथाऽपरप्रदेशे गगनेऽथवौष्ठस्थाने तथोच्चस्तनेषु परमोच्चरूपेषु पर्वतेषु यद्वोच्चैरूपेषु स्तनेषु कुचेध्वेव पर्वतेषु तथा सज्जो निर्दोषो घनो विस्तारो यासां तास्ताः स्थल्यस्तासु यद्वा समीचीनाश्च ता जघनस्थल्यः श्रोणयस्तास्वपि रमते स्म सुखमनुबभूवेति समासोक्तिरलंकारः । 'घनो मेघेऽथ विस्तारे' इति विश्वलोचनः ॥२॥
अर्थ-तदनन्तर इस जगत्में भूपति-राजा जयकुमार अपनेसे सम्बन्ध रखने वाली निर्मल (पक्षमें निर्दोष आचरण वाली) विद्याओंको (पक्षमें स्त्रियोंको) नवीनकी तरह प्राप्त कर प्रशस्त एवं सुरतोपयोगिनी-देवत्वके योग्य (पक्षमें सुरत-रतिक्रीड़ाके योग्य) उपयोगसे सहित क्रियाको समुद्योतित करनेके लिये उत्कण्ठित चित्त हुए।
भावार्थ-विद्याओंको प्राप्त कर गगनविहार करनेकी इच्छासे सहित हुए ॥१॥
अर्थ-सेनापति-दिग्विजय कालमें भरत चक्रवर्तीके सेनापतिके पद पर अधिष्ठित जयकुमार उन विद्याओंको प्राप्त कर अधरप्रदेश-आकाशमें (पक्षमें अधरोष्ठमें) उच्चैस्तनपर्वत-अत्यन्त ऊँचे पर्वतों पर (पक्षमें उन्नत स्तनरूप पर्वतों पर) और सज्जघनस्थली-निर्दोष विस्तारसे युक्त वनभूमियोंमें (पक्षमें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org