________________
१०७४ जयोदय-महाकाव्यम्
[६०-६२ स्मृतमपि कि जिननाम कदाचिद् द्धक्येऽपि गतम् । विकलतया सम्प्रति हे मूढ ! स्मरात्मनोऽनुकृतम् ॥६॥ स्मृतमपीत्यादि हे मूढ ! मोहाच्छन्न ! सम्प्रति वार्धक्येऽपि गते वृयत्वेऽपि सम्प्राप्ते कि कदाचिदपि जिननाम स्मृतमपि तु नैवातो विकलतया विच्छिन्नेन्द्रियमनस्तया केवलं कृतमन्यात्मनः स्मर यथा कृतं तथा स्वयं चिन्तय ॥६०॥
रट सटिति मनो जिननाम गतमायुर्नु दुर्गुणधाम । आशापाशविलासतो द्रुतमधिकतुं धनधाम ॥ निद्रापि क्षुद्राऽभवद् भुवि नक्तंदिवमविराम ॥६१॥ स्थायी रटेत्यादि-हे दुर्गुणधाम ! दुर्गुणानां ग्राम स्थान ! हे मनः ! आशा तृष्णव पाशो बन्धनरज्जुस्तस्य विलासतःप्रभावाद् धनं च धाम चानयोः समाहारस्तद्भुतं शीघ्रमधिकर्तुमात्मायत्तं कर्तुमायुर्जीवितं गतं व्यतीतं न्विति वितर्केऽतो झटिति शीघ्रं जिननाम रट पुनःपुनरुच्चारणं कुरु तस्य । नक्तंदिवमहनिशमविराम ! विश्रान्तिशून्य हे मनः : भुवि पृथिव्यां तव निद्रापि क्षुद्रा नष्टाभवत् । जिननामस्मरणमन्तरेण नास्ति तव श्रेय इति यावत् ॥६१॥
पुत्रमित्रपरिकरकृते बहु परिणमतोऽतिललाम !
रामाणामारामरसतो हसतो वाश्रितकाम ! गतमायुः ॥६२॥ पुत्रेत्यादि-हे आश्रितकाम ! कामवासनातुर ! पुत्रमित्राणां तत्सम्बन्धिनां परिकरः समूहस्तस्य कृते प्रसन्नताकार्येऽतिललाम सुन्दरतरं बहु वारं वारं परिणमतः कुर्वतस्तथा रामाणां स्त्रीणां य आरामो हावभावविलासारिपरिणामस्तस्य रसतः समास्वादनतो वा हसतस्तव गतमायुः सर्वमपि व्यतीतं जन्म ॥६२॥
अर्थ-हे मूर्ख ! बुढ़ापा आनेपर भी क्या तूने जिनदेवके नामका स्मरण किया है ? अर्थात् नहीं किया। अब विकलताके कारण-इन्द्रिय और मनकी शक्ति क्षीण हो जानेसे केवल अपने कार्यकलापका विचारकर ॥६॥
वर्ष-हे दुर्गुणोंके स्थान मन ! आशारूपी पाशके प्रभावसे शीघ्र ही धनधामको अधिकृत करनेके लिये आयु व्यतीत कर दी, रातदिन तूने विश्राम नहीं लिया । अब शीघ्र ही जिनराजके नामका पुनः-पुनः उच्चारण कर । इसके बिना तेरा कल्याण नहीं होगा ।।६।। ___ अर्थ-हे कामवासनासे आतुर मन ! पुत्रमित्रादि समूहके प्रति बार-बार तूने अत्यन्त सुन्दर परिणमन किया है और स्त्री नामक आराम-स्त्रियोंके हावभाव आदि चेष्टाओंके रसास्वादनसे तूने हर्षका अनुभव किया है । यह सब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org