________________
जयोदय -महाकाव्यम्
[ ४०-४२
सुदृग्घृदन्तः प्रतिवेदको भवन् सुधीः सुधीरो वसुधावधूधवः । निजीयजन्मान्तरवृत्तपूरणे प्रियां स्म संपुरतीष्टभूरणे ||४०||
१०६८
सुदृगित्यादि - इष्टेऽभिलषिते भुवो रणे कोणे तस्मिन् स्थले सुधीरः सुष्ठु षियं बुद्धिभारयति प्रेरयति स सुधीर्बुद्धिमान् वसुधा भूरेव वधूः स्त्री तस्या धवः स्वामी जयः स सुवृशः सुलोचनाया हवन्तमनोमध्यं तस्य वेवकोऽनुज्ञाता भवन् संस्तां प्रियां निजीयजन्मान्तरस्य यत्किञ्चिद्वतं विवरणं तस्य पूर्णने परिवर्णने विषये सम्प्रेरयति स्म समुत्साहयुक्तां चकार । अनुप्रासोऽलंकारः । 'रणः कोणे दवणे युद्धे' इति विश्वलोचने । अथवा सुवृग्धवोऽन्तोऽङ्गीकारो यत्र तत्प्रतिवेदको भवन्निति ॥४०॥
वचोऽपि तस्या गुणभद्रभाषितं सितं तु सापल्य मनोगतं द्रुतम् । चकर्ष मालिन्यमलिन्यपेक्षितं तदाह्ययस्कान्त इवायसोंऽशकम् ॥४१॥
वचोऽपीत्यादि- - तदा तस्मिन् समये तस्याः सुलोचनाया वचो वचनं यदस्मात्पूर्व गुणभद्राचार्येण भाषितं यथा कथितं तथैव गुणेन मधुरत्वेन भद्रं मङ्गलं भावितं तत एव सितं निर्मलं यत्तत् सपत्नीनामिदं सापत्न्यं यन्मनस्तत्र गतं स्थितं मालिन्यं मलिनत्वं यवलिनि भ्रमरे वा वृश्चिके वाsपेक्षितं तद्द्भुतं शीघ्रमेव चकर्ष कर्षति स्म, अयस्कान्तः अयसोंऽशर्क तथेति दिक् । तदेव नीचेः कथ्यते ॥४१॥
अहो सज्जनसमायोगो हि जगतामापदुद्धर्ता ।
इतः शुश्रूषवः सभ्याः प्रश्नकर्ता स्वयं भर्ता ॥४२॥ ( स्थायी) अहो इत्यादि - जगतां सर्वेषां जीवानामापदो विपत्तेबद्धर्ता निवारकः सज्जनानां
आया ||३९||
अर्थ-उस इष्ट भूमिके कोणमें उत्तम बुद्धिको प्रेरित करने वाले बुद्धिमान् राजा जयकुमारने सुलोचनाके अन्तर्हृदयकी बात जानते हुए उसे अपने जन्मान्तरका वृत्तान्त कहनेके लिये प्रेरित किया - उत्साहयुक्त किया ||४०||
अर्थ - उस समय गुणभद्रभाषित - गुणभद्राचार्य के कथनानुसार माधुर्य गुणसे सहित एवं मङ्गलरूप सुलोचनाके निर्मल वचनने सपत्नियोंके मनमें स्थित भ्रमरके समान मलिन अथवा विच्छूके समान क्रूरतापूर्ण मलिनताको उस प्रकार खींच लिया, जिस प्रकार चुम्बक लोहेके टुकड़ेको खींच लेता है ।
भावार्थ- सुलोचनाके निम्नलिखित कथनसे उसकी मूर्च्छाके संदर्भको लेकर सपत्नियों के मनमें कलुषित विचार उत्पन्न हुए थे, वे दूर हो गये ॥४१॥ अर्थ - आश्चर्य है कि सत्पुरुषोंका समागम समस्त जीवोंकी आपत्तिको दूर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org