________________
जयोदय- महाकाव्यम्
[ ८३-८४
तत्र च्छाया छदिवद् अभ्यागतस्य लोकस्य विश्रान्त्ये सदासनदानादिना सत्कारेण कृत्वा सन्तुष्ट भूत्वोपकारिणी ॥८२॥
माणिक्यनन्दितामाप
१०४८
स प्रमाणिपदेष्विति । सम्मानिता शुभार्याणां साप्रभाचन्द्रसंस्कृतिः ॥ ८३ ॥
माणिक्येत्यादि- - स जयकुमारः प्रमाणिनां सत्यवादिनां पदेषु स्थानेषु माणिक्यवद् नन्दितामानन्दनं बहुमूल्यत्वमापेति । किञ्च, प्रमाणं न्यायशास्त्रं तस्य पदानि प्रमाणिपदानि तेषु माणिक्यनन्दितामाप, माणिक्यनन्दी परीक्षामुखनामकन्यायशास्त्रप्रणेताचार्यवर्यः । सा सुलोचना चाशु शीघ्रमेव निःशङ्कतया भार्याणां गृहिणीनां मध्ये सम्मानिता यतः प्रभायुक्तस्य चन्द्रस्य संस्कृतिः संस्कारो यस्याः सा । यद्वा तथा सम्मानिताशु यथा भासु प्रभासु या आर्याः श्रेष्ठास्तासां मध्ये चन्द्रस्य संस्कृतिर्यस्या एवंभूता प्रभा चान्द्रमसीत्यर्थः । तथा च सा प्रभाचन्द्रस्य नामाचार्यस्य सती या कृतिः सा प्रभाचन्द्रसंस्कृतिः परीक्षामुखस्योपरि कृता प्रमेयकमलमार्तण्डाभिधाना सा चार्याणां सभ्यानां मध्ये शुभा प्रशस्तेत्येवंभूता सम्मानिताभूत् ॥८३॥
स देवागमसंख्याता सा विद्यानन्दसत्कृतिः ।
अकलङ्कस्य यशसः प्रतिष्ठानाय यन्मतिः ॥८४॥
स देवागमेत्यादि - स जयकुमारो देवस्य श्रीपुरोर्योऽसावागमो द्वादशाङ्गाभिधानस्तस्य संख्याता व्याख्यानकर्ता बभूव । सा च सुलोचना विद्याया य आनन्दस्तस्य सत्कृतिः समादरणं यस्यास्सा । यद्वा विद्ययानन्दस्य सत्कृतिर्यस्या इत्येवं यस्या मतिर्यन्मतिरकलङ्कस्य
युक्त थे और सुलोचना उस गृहस्थधर्मरूपी घर की छाया - छप्परके समान अभ्यागत- अतिथिके विश्राम के लिये उपकारिणी थी || ८२ ॥
अर्थ - वह जयकुमार प्रमाणिपदेषु - सत्यवादियोंके स्थान में माणिक्यके समान नन्दिता - समृद्धिताको प्राप्त हुए थे । यद्वा प्रमाणिपदेषु - न्यायशास्त्र के पदोंमें माणिक्यनन्दी नामक आचार्यकी रूपताको प्राप्त हुए थे और प्रभाचन्द्रसंस्कृति - प्रभायुक्त चन्द्रमाकी संस्कृति-संस्कारसे युक्त वह सुलोचना भी भार्याणां - स्त्रियोंके बीच शीघ्र ही सम्मानिता-प्रतिष्ठाको प्राप्त हुई थी अथवा प्रभाचन्द्र संस्कृति - प्रभाचन्दाचार्यकी उस समीचीन कृति - प्रमेयकमलमार्तण्ड रूप हुई थी, जो आर्य - ज्ञानी जनोंमें शुभ तथा सम्मानिता - सन्मानको प्राप्त है || ८३ ||
अर्थ - वह जयकुमार श्री आदिनाथ भगवान्के द्वादशाङ्ग रूप आगमके व्याख्याता थे अथवा देवागमस्तोत्र के रचयिता समन्तभद्राचार्य थे और वह • सुलोचना विद्यानन्दसत्कृति - विद्यासे प्राप्त होने वाले आनन्दका सन्मान करने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org