________________
५०-५१ ] द्वाविंशः सर्ग:
१०३१ न लब्धवान् तावत्तत्पूर्वमेव सा सती आहारस्य सम्पदं भोजनसामग्रीमधात् कृतवती। तु पुनस्तस्मिन् जयकुमारे रसति भोजनं भुजाने सति सा वीजनं वायुसम्पत्करं तालवृन्तमुदारमनेकवारं पुनर्दधार धृतवती। एवमेव स महान् महापुरुषो यावद् असत्त्वं सत्त्वाभावं नाप तावत् सा सती हारस्य मुक्तावल्याः सम्पदमधात् । यावद् स श्रमं न प्राप' तावत् सापि प्रसन्नमुखतयाऽवर्तत किन्तु तस्मिन् रसति सति सा तत्पूर्वमेवानेकवारं वीजनं स्खलनं रजःसद्धावं दधार ततोऽनन्तरं वनितातः पश्चात् पुरुषपरिस्खलन सामुद्रिकसुलक्षणम् ॥४९॥ कौतुकतोऽपि कर सन्दधता कण्टकितापि ततो नु मृदुलताम् । तथाऽऽशयश्चेत् स्पृष्टुमदशि स्मितकुसुमं विटपेनाऽवर्षि ॥५०॥
कौतुक्तोऽपीत्यादि-कौतुकतोऽपि विनोदवशेनैव करं हस्तं सन्दधता स्पर्शका तेन जयेन सा सुलोचना कण्टकिता रोमाञ्चपूर्णाऽऽपि प्राप्ता यावत्स स्पृष्टवान् तत्पूर्वमेव सा प्रसन्नतया रोमाञ्चिताभूदिति ततः कारणात् किन्तु मृदुलता कोमलत्वं अपि तु न सा मृदुलता मृदुवल्लरीति। किञ्च कौतुकतः कौतुकं कुसुमं ततस्तत्समीपेऽपि करं वदता जयेन कुसुमावचयसमये तेन कण्टकितैवापि न तु पुष्पाणि स्वयं रोमाञ्चितत्वात् । यद्वानुमृदुलतामिति द्वितीयात्मकः पाठस्तदा मृदुलतामनु कोमलतां प्रति कोमलां लतां प्रतीति च व्याख्येयम् । किञ्च तथा कोमलाङ्गया स्पृष्टुमालिङ्गितु कुसुमग्रहणार्थ वा शयो हस्तोऽवशि यावदेव तया करो व्यापारितश्चेद्यदि तावदेव विटपेन कामिशिरोमणिना तेन वृक्षलम्बेन च स्मितमेव कुसुमं स्मितवत्कुसुमं वाऽवर्षि परिपूरितं प्रसन्नभावेनेति ॥५०॥ तमस्युद्धतत्वेन खण्डितौ नखलेन कलेनेशितहितौ। दोषोज्झितौ कुचावापतुहियेवावृत्ति सुतनोरिह तौ ॥५१॥
पहले ही वह आहार सामग्रीको तैयार कर लेती थी और जब वह आहार करते थे तब वह अनेक बार उत्तम पंखा झलती रहती थी ।।४९।।
अर्थ-यदि कौतुकतोऽपि-विनोदवश भी जयकुमारने सुलोचना पर हाथ रक्खा तो वह कण्टकिता-रोमाञ्चित हो गई। क्या इसका कारण उसकी मृदुलता-कोमलता थी? नहीं, वह स्वयं मृदु-लता-कोमल वल्लरी थी । यदि सुलोचनाने भी कौतुकवश जयकुमारका स्पर्श-आलिङ्गन करनेका अपना. आशय-भाव दिखाया तो विटप-कामिशिरोमणि जयकुमारने कुसुमके समान स्मित-मन्द मुसकानको प्रकट किया, प्रसन्नता व्यक्त की। यदि सुलोचनाने पुष्पावचयके समय कौतुक-पुष्पके समीप अपना शय-हाथ बढ़ाया तो विटप-वृक्ष. शाखाने भी स्मितके समान-मन्द मुसकानके समान पुष्पवर्षा कर दी ॥५०॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org