________________
१००४ जयोदय-महाकाव्यम्
[९३ पण्डितश्चतुरस्तथा मानवानां प्रजाजनानामन्येषां च शिरोमणिरावरणीयस्तथा निपुणाः प्रौढतामवाप्ता आत्मजाः पुत्रा यस्य स काशीराड् अकम्पनस्स सूत्रिता सूच्येवात्मनि निःस्थताः सद्गुणाः शीलसौभाग्यादयो यया तां तथोडुपश्चन्द्रमा इव रम्यं मनोहरभाननं मुखं यस्यास्तां पुत्रों विदुषी बुद्धिमतों सुलोचनां समीचीनेनार्षोक्तेन विधिना परिणाय्य तु पुनरयं शुभावहविधि जल्पन मनसा वाचा चानुविन्वन् सन्नात्मविद्भवन् शर्मणि स्वकल्याणेऽर्थाज्जिनदीक्षायामाशयं बबन्ध नियमेन सः। षडरचक्रबन्धं कृत्वेवं वृत्तं तस्यारान्त्यक्षरः 'पुरमाप जय' इति सर्गविषयनिर्देशो भवति ॥१२॥
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणणिनं घृतवरी देवी च यं धीचयम् । द्वाविंशप्रथमो जयोदयमहाकाव्येऽतिनव्येऽसको
सर्गस्तेन महादयेन रचिते यत्काव्यमल्पं हि कौ ।।९३॥ श्रीमानित्यादि-द्वाविंशात् द्वाविंशतितमात् प्रथमः पूर्ववर्ती, एकविंशतितम इत्यर्थः । शेषं सुगमम् ॥१३॥
निपुण पुत्रोंसे सहित आत्मज्ञ काशीराट-अकम्पन महाराजने चन्द्रमाके समान मनोहर मुखवाली समीचीन गुणोंको आत्मसात् करने वाली तथा विदुषी पुत्री सुलोचनाका आर्ष विधिसे विवाह कर शाश्वत सुख प्राप्त करने में मन लगाया, अर्थात् जिनदीक्षा धारण करनेका विचार किया ॥९२॥ इति श्रीवाणीभूषणब्रह्मचारिपण्डितभूरामलशास्त्रिविरचिते जयोदयापरनाम-सुलोचनास्वयंवरमहाकाव्ये एकविंशतितमः सर्गः समाप्तः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org