________________
जयोदय- महाकाव्यम्
[ ८२-८४
हेमाङ्गदादिष्वधुना स्थितेषु बबन्ध पट्ट पटुरेण तस्याः । भाले विशाले दुरितान्तकाले भवन्ति भावा रमिणां रमासु ||८२||
हेमाङ्गदादिष्वित्यादिइ - एष पटुश्चतुरो जयकुमार:, स तस्या: सुलोचनाया विशाले भाले ललाटे हेमाङ्गदादिषु सर्वपरिजनेषु पुरजनेषु च स्थितेषु पटं बबन्ध तां पट्टमहिष कृतवानिति । हि सुलोचनायाः पुण्योदयो यतः किल रमः कामस्तद्वतामपि नराणामनुकूलभावास्ते रमासु स्त्रीषु दुरितस्य पापस्यान्तकाले हि भवन्ति किल । अर्थान्तरन्यासोऽलंकारः ||८२||
१०००
अथ कम्पनाधिनाथो भवेद् भवानेव देव भूमितले ।
भवदपरः कश्च नरोऽकम्पनसुततां व्रजेद् बन्धो ! ॥८३॥
अथेत्यादि६ - अथात्र श्यालेर्हेमाङ्गदाभिः समं जयकुमारस्य परिहासगोष्ठी सा यथाकोsपि जयकुमारं जगाव हे देव ! अस्मिन् भूमितले भवानेव कम्पनस्य कम्प्रस्याधिनाथः संरक्षकस्तदुद्धृत्य कम्पनं नाम कम्पः स एवाधिस्तस्यभवानेव नाथो भवेन्न तु वयमिति । एतदुत्तरं जयकुमार आह-भो बन्धो ! सोऽत्र नरो भवदपरः कः स्याद्योऽकम्पनस्य महाराजस्थ सुततां व्रजेदेतदेव परावृत्या कम्पनस्य यमस्य सुततां व्रजेदिति ॥८३॥
अन्यदर्शकतया जगौ परः श्रूयते भुवि भवानहो करी । प्रत्युवाच पुनरेष साहसी त्वं च वाञ्छसितरां करेऽणुताम् ||८४ ॥
अर्थ - इस समय चतुर जयकुमारने हेमाङ्गद आदिके विद्यमान रहते हुए सुलोचनाके विशाल ललाटपर पट्टराज्ञी पदका पट्ट बांधा, सो ठीक ही किया, क्योंकि पाप कर्मका अन्त, अर्थात् पुण्य कर्मका उदय होनेपर स्त्रियोंके विषयमें पुरुषोंके अनुकूल - इष्टभाव होते ही है ॥८२॥
Jain Education International
अर्थ --- हेमाङ्गद आदि सालोंके साथ जयकुमारकी विनोदगोष्ठी चल रही है । किसीने जयकुमारसे कहा कि हे देव ! इस भूतल पर आप ही कम्पनभीरुताके अधिनाथ स्वामी हैं, अथवा कम्पनरूप आधिमानसिक व्यथाके नाथ हैं । जयकुमारने कहा हे बन्धो ! आपके सिवाय दूसरा कौन मनुष्य अकम्पन सुतता - यमराज के पुत्रपनेको प्राप्त हो सकता है ? अर्थात् में तो कम्पन का हो afrate हूँ, पर आप तो अकम्पन - यमके पुत्र होकर उसके उत्तराधिकारी बन रहे हैं । परिहार पक्ष में आपके सिवाय अकम्पन - काशी नरिशकी पुत्रताको कौन प्राप्त हो सकता है ? ॥८३॥ |
For Private & Personal Use Only
www.jainelibrary.org