________________
९९८ जयोदय-महाकाव्यम्
[७७-७९ सहितायेवं चिरादुपेयुषे बहुकालादुपागताय तस्मै वणिजो नेगमा आवरात्प्रसन्नभावान्मणिजोपं रत्नानां समूहरूपमुपहारं ददुः ।।७६॥
तदा वधूकान्तिसुधां निपातुमभ्यागतानां पुरसुन्दरीणाम् । मुखेन्दुसन्तानवशाद बभूवुरन्वर्थसंज्ञाः खलु चन्द्रशालाः ॥७॥
तदेत्यादि-चन्द्रशाला नाम वलभ्यस्तास्तदा वध्वाः सुलोचनायाः कान्तिरेव सुधाऽमृतधारा तां निपातुमारस्वावयितुमभ्यागतानां पुरस्य सुन्दरीणां ये मुखेन्दवस्तेषां सन्तानस्य वशावन्वर्थसंज्ञा यथार्थनामवत्यो बभूवुः खलु । रूपकोऽलंकारः ॥७७॥ विलोक्य कान्तं सुरभिस्वरूपं प्रफुल्लिता गात्रलता लताङ्गयाः । तवाननेन्, मधुरस्मितान्तं दृष्ट्वा समुद्रोमलतोऽयमिष्टः ॥७८।।
विलोक्येत्यादि-तदा किलैकस्या लताङ्गघाः स्त्रिया गात्रलता सुरभि सुन्दरतरंस्वरूपं भावो यस्य तं तथा सुरभिर्मऋतुस्तत्स्वरूपं कान्तं विलोक्य प्रफुल्लिता विकसिताभूत् । तथा सोऽयमिष्टपुरुषो मधुरो मनोहरः स्मितस्यान्तो यस्मिस्तं तस्याः प्रियाया माननमेवेन्दु तं दृष्ट्वा समुद्रोमलतो मुद्रोम्णां हर्षाङकुराणां लतापरम्परा तया सहितोऽभूत् । किं वाऽमलेन तोयेन मिष्टोऽसौ समुद्रो मुद्रायुक्तो वा वारिषिर्वाऽभूत् । मधुरैरमृतरूपै रश्मिभिस्तान्तं व्याप्तं वा मुखेन्दुम् । श्लेष एवालंकारोऽत्र ॥७८।। प्रियां समुविश्य नरः स्वमास्यं समस्पृशच्छान्ततयेव चास्य । विलोकनात् संघृणयेव वामाऽधरं परावृत्य तरां रराज ॥७९॥
आये एवं सुयश और सुलक्ष्मोसे युक्त राजाके लिये आदरभावसे मणियोंका उपहार दिया ॥७६।।
अर्थ-उस समय सुलोचनाकी कान्तिरूपी सुधाका पान करनेके लिये आई हुई नगरवासिनी स्त्रियोंके मुखरूपी चन्द्रमाओंके समूहसे चन्द्रशालाएँ-अट्टालिकाएँ सार्थक नामवाली हो गई थी ॥७७||
अर्थ-किसी स्त्रीकी शरीररूपी लता सुरभिस्वरूप-अत्यन्त मनोहर रूपवाले अथवा वसन्त ऋतुरूप कान्त-पतिको देखकर प्रफुल्लित-विकसित हो गई और यह इष्ट पति-पुरुष भी मधुरश्मितान्त-मनोहर किरणोंसे व्याप्त अथवा मधुरस्मितान्त-मनोहर मुसक्यानसे युक्त उसके मुखरूपी चन्द्रमाको देखकर समुद्रोमलतः-उठते हुए रोमाञ्चोंकी परम्परासे युक्त हो गया, अथवा अमलतोयमिष्ट सम्ब-स्वच्छ जलसे मिष्ट समुद्र हो गया, अथवा अमलतोयमिष्ट-निर्मल आभासे मनोहर समुद्र-मुद्रा सहित हो गया ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org