________________
७४-७६ ] एकविंशतितमः सर्गः
९९७ नगरमित्यादि-अयायं नृप एषु मन्त्रिमुख्येषु निजवृत्त प्रवासावसरे यदभूत्तत्कियदपि यत्किञ्चित् संवदन् संस्तथा निजदेशस्य वृत्तकं पृष्ठतो यत्किञ्चिदभूत् तदेभ्यः स्वयं कर्णपथं नयन् नगरं वैभवाद्यथा समारोहं प्रविवेश । अनुप्रासोऽलंकार ॥७३॥
नरनाथमनन्यचेतसोभयतस्तावदुपस्थिता नराः । प्रणमन्ति तथा स्म ते किलानरपद्वारमुदारगोपुरात् ॥७४॥
नरनाथमित्यादि-नरा दर्शकलोका उदारं च तद् गोपुरं नगरद्वारं तस्मादारभ्यानरपद्वारं राजद्वारपर्यन्तं नरनाथमुभयतोऽनन्यचेतसा तदेकचित्तीभूयोपस्थितास्ते तं पुनः प्रणमन्ति स्म । अनुप्रासोऽलंकारः ॥७४॥
सरतो बलवारिधेः स्थितो द्वयतः पौरगणः क्रमागतः । समतिक्रमरोधमादरादनुचक्रे स हि तीरमन्तरा ॥७॥
सरत इत्यादि-सरतःप्रसारं गच्छतो बलं सैन्यमेव वारिधिस्तस्य द्वयतो द्वयोर्भागयोः क्रमश आगतः क्रमागतः पौरगणः पुरवासिनां समूहः स तीरमन्तरा तटमनुलग्नो भूत्वा स्थितः सन्नावराद्विनयभावेन समतिक्रमस्य रोधं सीमातिक्रमणनिवारणमनुचक्रे । होति निश्चयेन । रूपकोऽलंकारः ॥७५॥
वणिजो मणिजोषमादरादुपहारं ह्यनणौ वणिक्पथे । ददुरेव चिरादुपेयुषे सुयशःश्रीसहिताय सुप्रथे ॥७६।। वणिज इत्यादि-अनणी विपुलविस्तारे वणिक्पथे हाटस्थाने, कोदृशे तस्मिन् ? सुप्रथे शोभना नोतिपूर्णा प्रथा यत्र तस्मिन्, यशश्च श्रीश्च यशःश्रियो शोभने यशःश्रियो ताभ्यां
अर्थ-अपने प्रवासका कुछ वृत्तान्त मन्त्रियोंसे कहते हुए और अपने देशका कुछ वृत्तान्त मन्त्रियोंसे सुनते हुए राजाने समारोहपूर्वक नगरमें प्रवेश किया ।।७३।। ____ अर्थ-विशाल गोपुरसे लेकर राजद्वार तक अनन्यचित्त हो दोनों ओर खड़े हुए मनुष्योंने राजाको प्रणाम किया ॥७४।। ___ अर्थ-आगे चलते हुए सेनारूपी समुद्रके दोनों ओर क्रमसे आकर खड़े हुए नगरवासियोंके समूहने तटके बिना ही आदरभावसे सीमातिक्रमणके निषेधका अनुकरण किया था।
भावार्थ-सब लोग विनयभावसे यथास्थान खड़े थे अर्थात् सीमाका उल्लंघन नहीं हुआ था ॥७॥
अर्थ-अच्छी प्रथासे युक्त सुविस्तृत बाजारमें व्यापारियोंने चिरकालवाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org