________________
९९२ जयोदय-महाकाव्यम्
[५८-६० आगताश्च दधिभाजनादिभिर्घोषकान् नृपसुदृष्टये कृती। प्रीतितः कुशलपृच्छनादिभियायवान् स विससर्ग भूपतिः ॥५८॥
आगताश्चेत्यादि-घोषका आभीरा नपस्य सुदृष्टये दर्शनार्थ दधिभाजनमादिर्येषां तै तपार्दुग्धपात्रश्च समवेता भवन्त इति शेषः। आगता ये केपि तान् स न्यायवान् भूपतिः कुशलपृच्छनमादि येषां तैर्दनोपहारग्रहणं तदुक्तश्रवणमाश्वासनदानमित्येतैविससर्ज विदां कृतवान् प्रीतितो यतः स कृती विचारवानतः ॥५८॥ दामनाम दधतो दुधक्षतोऽभ्याजतोऽतियतिनी सहकृति । धेनुमैक्षत जयस्तदा स्तनाभ्याससंकलिततूर्णतर्णकाम् ॥५९॥
दामनामेत्यादि-तदा जयः स्तनानामभ्यासे संचूषणे संकलितस्तूर्णः शीघ्रभावो येन स तादृशस्तर्णको वत्सो यस्यास्तां धेनु गां दुधुक्षतो दोग्धुमिच्छतो दामनाम पदनियन्त्रणरज्जू दधतस्तथातियतिनों पुनरप्यन्यथागन्तुमुद्यतां सहुकृति यथा स्यात्तथाऽभ्याजतः संतर्जयतो गोपानक्षत । स्वभावाख्यातिरलंकृतिः ॥५९॥ प्रेयसीप्रणयपूर्णमानसः शीघ्रमेव निजमण्डलावधिम् । सच्चिदैकहृदयो मुनीश्वरः प्राप मुक्तिनगरीप्रघाणवत् ॥६०॥
प्रेयसीत्यादि-प्रेयस्यां सुलोचनायां यः प्रणयः प्रीतिभावस्तेन पूर्ण भरितं मानसं चित्तं यस्य स जयकुमारः सच्चिदा शुद्धात्मबुद्धचा सहैकमभिन्नं हृदयं यस्य स मुनीश्वरो मुक्तिरेव नगरी सर्वदा निवासयोग्यत्वात् तस्या प्रघाणवद् देहलीमिव शीघ्रमेव निजमण्डलस्य स्वदेशस्यावधि सीमानं प्राप लब्धवान् । इत्युपमालंकारः ॥६०॥
अर्थ-जो अहीर राजाके दर्शनके लिये दही आदिके पात्रोंसे युक्त होते हुए आये थे, उन सबको न्यायवान् कुशल राजाने कुशल प्रश्न आदिसे संतुष्ट कर प्रेमपूर्वक विदा किया था ॥५॥
अर्थ-स्तन चूसनेकी शीघ्रतासे युक्त बछड़ा जिसके समीप है, ऐसी मरकनी गायको दोहनेके इच्छुक तथा हुंकारपूर्वक पैर बांधनेके लिये रस्सी लिये हुए सामने आनेवाले गोपोंको जयकुमारने देखा था ॥५९॥ __ अर्थ-जिस प्रकार शुद्धात्माके साथ हृदयका एकत्व स्थापित करने वाले मुनिराज मुक्तिरूपी नगरीकी देहलीको प्राप्त होते हैं, उसी प्रकार सुलोचनाके प्रेमसे परिपूर्ण हृदयवाले जयकुमार शीघ्र ही अपने देशको सीमाको प्राप्त हो गये ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org