________________
८५-८७]
विंशतितमः सर्गः
९६५
त्वां मदनमनोहरं व्रजामि यथा तथा कुवलये न यामि । किमुपवनश्रियमेनां स्वामिन् परमब्जरीङ्गितं विदधामि ॥८५॥
त्वामित्यादि-हे स्वामिन् ! कुवलयेऽस्मिन् धरातले यथा त्वां मदन इव कामदेववदयवाम्रवृक्षवत्सरसतासम्पादकतया मनोहरं व्रजामि जानामि, तथा पुनरेनां देवतामपि पवना पुनीता श्रीः शोभा चेष्टा च यस्यास्तां किमु न यामि, यद्वा पुनरुपवनश्रियमेनां किं न यामीति तावत् । अहमपि परं केवलमञ्जलीङ्गितं स्वकीयकरयुगसम्पुटं विदधामि, यद्वा परायाः समुचिताया मजर्या इङ्गितं विदधामि तव सेवाकरी भवामि । पुनरियं तु सदाधारभूतैवावयोरिति ॥८५॥ त्वदंघ्रियुग्माय ममासनं न कलाब्जयुग्मं भुवि दीयते पुनः । न्यगाद्ययुक्तं खलु देव ते क्वचिद्विना ममोरः परमासनं च सत् ॥८६॥
त्वदंघ्रीत्यादि-हे देव ! स्वामिन् ! ते तुभ्यमिति यावत्, तथा हे देवते ! इति च देवतासम्बोधनमपि सम्प्रचार्यम् । त्वदंघ्रियुग्माय तव चरणद्वितयायेदं ममासनं विद्यतेऽमुष्मिन् तिष्ठ तावदिति । न नेत्येवं पुनस्त्रुटिस्मृत्यं कलाब्जयुग्मं करकमलद्वितयमेव भुवि बोयते पुनस्त्वदासनायेति तदेव युक्तम् । पुनरपि त्रुटिस्मरणं कृत्वा वदति, यदुक्तं तदयुक्तं न्यगादि खलु, यतस्तावन्ममोरःस्थलं विना परमन्यदासनं सत्प्रशंसायोग्यं न भवति तदेव तावधोग्यमस्ति ॥८६॥
सत्सुरतेयं तव सुमनस्त्वं कृत्वा मधुरक्षकतत्त्वम् । अभ्रमरीतिकरी निगदामि मानवलोकमिमं शिवगामिन् ॥८७॥
अर्थ-हे स्वामिन् ! इस धरातल पर मैं जिस प्रकार आपको. मदन-कामदेव अथवा आम्रवृक्षके समान मनोहर जान कर प्राप्त हुई हूँ, उसी प्रकार इसे पवनश्री-पवित्र लक्ष्मी अथवा उपवनश्री-उद्यानकी शोभा जानकर क्या प्राप्त नहीं हूँ ? इसीलिये मैं अञ्जलीङ्गितं विदधामि-हाथ जोड़कर नमन करती हूँ। अथवा आप आम्रवृक्ष है, यह उपवनकी शोभा है, तो मैं आप दोनोंके आश्रयसे विकसित होनेवाली मञ्जरी हूँ ।।८५।।। ____ अर्थ-हे देव ! हे स्वामिन् ! हे देवते ! प्राणरक्षिके ! आपके चरण-युगलके लिये मेरा आसन ही आसन है, अर्थात् आप मेरे आसन पर पदार्पण कीजिये, अथवा नहीं नहीं, मेरा करकमलयुगल रूप आसन ही पृथिवी पर दिया गया है । अथवा नहीं, गलत कह दिया गया, मेरे वक्षःस्थल (हृदय) के सिवाय दूसरा अच्छा आसन कहां है ? अर्थात् कहीं नहीं ॥८६।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org