________________
९५-९६ ] एकोनविंशः सर्गः
९२९ सम्यगाचरणे परायण इति परिहारोऽस्ति । एवं रुजा रोगेग होनो रहितोऽपि सरुग् रोगसहित इति विरोधे सति पुनः रुजा होनो नीरोगो भवन रुजा कान्त्या सहितः सरुग् स्यादेवं परिहारः॥९४॥ प्रातःसन्ध्यामधिकुर्यादेवमवन्ध्यां
तत्त्वार्थाध्ययने कुशलस्तस्मादाविः । सम्भूयाच्च हरेत् कुवासनाया वादं
वम्भप्रायं तदसम्बन्ध्यात्मविषादम् ॥९॥ प्रातरित्यादि-एवमुपर्युक्तरीत्या प्रातःसन्ध्यां सफलामधिकुर्यात्, यतस्तत्त्वार्थास्याध्ययने नोवादिपदार्थस्य चिन्तने कुशलो बोध आविः सम्भवेत् प्रकटीभूयात् । योऽसौ बोधो दम्भप्रायं छलबहुलं तस्यासम्बन्धी तत्वार्याध्ययनस्यासम्बन्धी योऽसावात्मनो विषादं च कुवासनाया विषयवासनाया वादं च हरेदिति यावत् । ___ एतवृत्त षडरचक्रबन्धात्मकं लिखित्वा प्रत्यरानाक्षरैः प्रातःसन्ध्याविद इत्येवं निर्गच्छति तावत् ॥१५॥
श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं वाणीभूषणमस्त्रियं घृतवरी देवी च यं धीचयम् । सर्गस्तेन जयोदये विरचिते स्याद्वादविद्यालयान्तेवासिप्रथितेन याति गणितोऽप्येकोनविंशाख्यया ॥९६॥
आचरणमें तत्पर रहे। तथा रुजा-रोगसे रहित होकर भी सरुग-रोगसे सहित हो यह विरोध है, परिहार पक्षमें सरुग्-रुच् कान्तिसे सहित हो ॥९४॥ __अर्थ-इस प्रकार मनुष्य प्रातःकालीन सन्ध्याको सफल-सार्थक करे, क्योंकि इसके करनेसे तत्त्वार्थके अध्ययनमें कुशल-निपुण ज्ञान प्रकट होता है। साथ ही वह ज्ञान मिथ्यावासनाओं-कुत्सित संस्कारोंके छलपूर्ण विवादको तथा उससे असम्बद्ध अपने विषाद-खेदको दूर करता है ॥९५।। इति श्रीवाणीभूषण-ब्रह्मचारिभूरामलशास्त्रिविरचिते जयोदयकाव्ये
एकोनविंशः सर्गः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org