________________
१९] एकोनविंशः सर्गः
८९५ तवर्षभस्येत्यादि-हे नाथ ! तवर्षभस्यापि बलीवर्दस्यापि नराणामुत्तमस्येति विरोधे तव ऋषभस्य श्रेष्ठस्येति तत्परिहारः। तथा मरी रेणुप्राय प्रदेश प्रभूतिरुत्पत्तिर्यस्येति तस्य स्विदपि पुनरपांशुलस्य न पांशु धूलि लाति स्वीकरोतीति तस्यैवं विरोधे सति मरोरिति मरुदेव्याः प्रभूतिरुत्पत्तिर्यस्य तस्यापि चापांशुलस्याव्यभिचारिणः शीलवतधारिण इति परिहारः। तथा मलानां निर्मलानामुज्वलानां मध्ये सतो बहूत्तमस्यापि हरितो हरिद्वर्ण इत्येवमूहितस्य तर्कितस्येति विरोधे सति अमलानां रलयोरभवादमराणां देवानां हरित इन्द्रादपि सतो हितस्य कल्याणकर्तुरिति परिहारः। जिनस्य तवाघ्रिपायोश्चरणकमलयोद्वितयं यजे पूजयामि ॥१८॥
तुल्यो न भानुर्भवतोऽखलस्य शशी कलङ्कादपि दूरगस्य । सिन्धुर्गभीरोऽप्यजडाशयस्य तुङ्गोऽपि मेरुर्हदि कोमलस्य ॥१९॥
तुल्य इत्यादि हे नाथ ! भवतो भास्वरस्य तव भानुर्भास्वरोऽपि सन् किलाखलस्य सतो हितकारिणस्तव तुल्यो भवितु नार्हति, यतः स खरस्तापकरो भवतीति हेतोः । तथा कलङ्कात् पापपङ्कादतिदूरं गच्छतीति तस्य भवतः शशी चन्द्रमा अपि तुल्यो न भवति, यतः स कलङ्की भवति । तथा गभीरोऽपि सिन्धुः समुद्रो न जडाशयो मूर्खभावो वर्तते यस्य तस्याजडाशयस्य बुद्धिमतो भवतस्तुल्यो न भवति, यतः स जडाशयो जलसंग्रहरूपो भवति । तथा तुङ्ग उच्छायरूपोऽपि मेरु म पर्वतः स हृदि कोमलस्य मृदुलस्वभावस्य भवतस्तुल्यो न भवति, यतः सोऽन्तः काठिन्यरूपो वर्तते ॥१९॥
अर्थ-हे भगवन् ! जो ऋषभ-बैल होकर भी नरोत्तम-नरश्रेष्ठ हैं, (परिहार पक्षमें जो श्रेष्ठ होकर मनुष्योंमें उत्तम हैं), जो मरुप्रभूति-रेणुबहुल मरुस्थलमें उत्पन्न होकर भी अपांशुल-धूलिके सम्बन्धसे रहित हैं, (परिहार पक्षमें मरुदेवीसे उत्पन्न होकर शीलवतसे सहित है), जो अमलानां सतः-उज्ज्वल शुक्ल पदार्थों में विद्यमान रहकर भी हरितोहितस्य-हरिद्वर्ण समझे गये हैं, (परिहार पक्षमें अमल-अमर-देवोंके हरितः-इन्द्रसे भी अधिक श्रेष्ठ हितकारी है), ऐसे आप जिनराजके चरण युगलकी मैं पूजा करता हूँ ।।१८।।।
अर्थ हे नाथ ! भास्वर-देदीप्यमान होनेपर भी भानु-सूर्य आपके तुल्य नहीं है, क्योंकि आप अखल (अखर) हितकारी हैं-कोमल प्रकृतिवाले हैं और भानु खर-तीक्ष्ण प्रकृति वाला है। आप कलङ्क-पापसे दूरगामी है, अतः चन्द्रमा भी आपके तुल्य नहीं है, क्योंकि वह कलङ्कसे सहित है। समुद्र गम्भीर-गहरा होकर भी आपके तुल्य नहीं है, क्योंकि आप गम्भीर धैर्यवान् होनेके साथ अजडाशय-प्रबुद्ध आशयसे सहित हैं और समुद्र जडाशय-जलके संग्रह रूप है। इसी प्रकार मेरु पर्वत तुङ्ग-ऊँचा होकर भी आपके तुल्य नहीं है, क्योंकि आप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org