________________
एकोनविंशः सर्गः
८९३ ध्यायन सुचित्ते जिनराजमुद्रां विधूय मोहान्धमयों स तन्द्राम् । जगाम मोदेन युतो जिनस्य महालयं वन्दितुमात्मवश्यः ॥१४॥
ध्यायन्नित्यादि-आत्मवश्यो जितेन्द्रियः स जयकुमारः सुचित्त शुबहृदये जिनराजस्य मुद्रा वीतरागदेवस्य सौम्याकृति ध्यायन् मोहान्धमयोमज्ञानान्धकाररूपां तन्द्रां प्रमावदशां विधूय दूरीकृत्य मोदेन हर्षेण युतः सहितो बन्दितु वन्दनां कतु जिनस्याहतो महालयं विशालमन्दिरं जगाम गतवान् ॥ १४ ॥ ननाम हे पाठक ! वच्मि तुभ्यं जगद्गुरुभ्यः प्रथम पुरुभ्यः । विश्वकविश्वासगुणाकरेभ्यः सोऽदूरवर्ती परमादरेभ्यः ॥१५॥
ननामेत्यादि-तत्र हे पाठक ! स्वाध्यायकारिन् ! तुभ्यमहं वच्मि यत् सर्वस्मात्कार्यक्रमात्प्रथममेव परमेभ्य आवरेभ्यो विनयभावेभ्यो न दूरे भवतीत्यदूरवर्ती भवन् विनयाचारपरायणो भवन् विश्वस्य जगतो यो विश्वासस्तस्यैकः प्रधानो गुणो वृद्धिपरिणामस्तस्याफरेभ्य उत्पत्तिस्थानभूतेभ्य इत्येवं जगतां प्राणिमात्राणामपि गुरुभ्यः पुरुभ्यो नाम श्रीवृषभदेवेभ्यस्तीर्थकरेभ्यो ननाम नमश्चकारेति ॥१५॥ करवयी श्रीरिव सात्युवारा लिलिङ्ग राज्ञो हृदयं यदारात् । चुचुम्ब से]व मुखं तदानीं सवर्णवृत्ता धरणीव वाणी ॥१६॥
करद्वयीत्यावि-तत्र यदा वन्दनावसरे राज्ञः करयोदयी कुड्मलीभूयातिशयेनोवारा समुद्गम्य श्रीरिव यथा लक्ष्मोस्तथा राज्ञो हृदयमुरःस्थलं लिलिङ्गालिङ्गितवतो यथा लक्ष्मीहंदि निवसति तथा सापि हृदयमुपजगाम । तदानीं तस्मिन्नेव समये ईjया
अर्थ-वह जितेन्द्रिय राजा जयकुमार शुद्ध हृदयमें जिनराजकी सौम्यमुद्राका ध्यान करता हुआ मोहान्धरूप प्रमाद दशाको नष्ट कर वन्दना करनेके लिये विशाल जिनमन्दिर गया ।। १४ ॥
अर्थ-हे पाठक ! मैं तुम्हारे लिये कहता हूँ कि उत्कृष्ट विनयभावके निकटवर्ती-विनयशील राजा जयकुमारने सबसे पहले जगत्के श्रद्धागुणको उत्पन्न करनेके लिये खान स्वरूप जगद्गुरु भगवान् वृषभदेवको नमस्कार किया ॥१५॥
अर्थ-वन्दनाके समय लक्ष्मोके समान अत्यन्त उदार करद्वयी-कुड्मलाकार परिणत दोनों हाथोंने राजाके हृदयका आलिङ्गन किया, अर्थात् राजा दोनों हाथ जोड़कर वक्षःस्थल के निकट ले गये तो सद्वर्णवृता-उत्तम अक्षरोंसे युक्त छन्दों बालो (पक्ष में ब्राह्मणादि वर्गों के अनुरूप सदाचारसे युक्त) पृथिवीके समान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org