________________
'६-७ ]
एकोनविंशः सर्गः
हस्तेन स्वकीयेन पाणिना निजप्रियां प्रेयसी धरित्री भूमि पस्पर्श । कीदृशेन हस्तेनेति चेत् ? वारिभवोज्ज्वलेन वारिभवं कमलं तद्वदुज्ज्वलेन । यद्वा वारिणो भवः सद्भावस्तेनोज्ज्वल: पवित्रस्तेन । तथा च कीदृशेन ? सकोमलेनेति स । कोमलेन स कोर्मलेन वास जयकुमारः कोमलेन मृदुना यद्वा स एव सकः, स्वार्थे कप्रत्ययः, मलेन मलिनरूपेणेति यावत् । आशौचानन्तरं समृत्तिकेन जलेन हस्तप्रक्षालनं चकारेति ॥५॥ समञ्चनक्षत्रपते पस्य तदा सदाचारभूतः प्रशस्यः । गृहो तमूर्तिः शशिनः प्रसाद आसीच्च गण्डूषनिरुक्तिवादः ॥६॥
समञ्चेत्यादि-तदा तस्मिन् काले शशिनश्चन्द्रस्य गृहीता स्वीकृता मूर्तिः स्थूलाकृतियेन स गृहीतमूर्तिः । प्रसादः प्रसन्नभाव इव नृपस्य राज्ञो जयकुमारस्य गण्डूषाणां कुरलकानां निरुक्तिः प्रवृत्तिस्तस्था वाद आसीत् कथनमभूत्, प्रशस्यः प्रशंसायोग्यः, सदाचारत्वात्। कीदृशस्य नृपस्य ? समञ्चनक्षत्रपतेः सम्यगञ्चनमाचरणं यस्य तस्य क्षत्रपतेः क्षत्रियशिरोमणेश्चन्द्रपक्षे च सम्यगञ्चनं येषां तानि समञ्चनानि, तानि च तानि नक्षत्राणि, तेषां पतिः स्वामी तस्य । तथा सदाचारभृतः समीचीनाचारणशालिनश्चन्द्रपक्षे पुनः सदा सर्वदा चारभूतो गतिशीलस्येति यावत् ॥६॥ श्रोवज्रखण्डाभरवान्वितेन सद्वर्त्ममात्रैकहितेन तेन । समाश्रितं मजनमेवमाहुः सुधांशुना चबित एव राहुः ॥७॥
श्रीवजेत्यादि-श्रीवत्रस्य पवित्रहीरकस्य खण्डा अंशास्तेषामाभेवाभा येषां तेच ते रदा वन्तास्तैरन्वितेन युक्तेन परमनिर्मलवन्तधारकेणापि तेन राज्ञा केवलमेतत् सद्वत्म
हाथसे अपनी प्रिय पृथिवीका स्पर्श किया, अर्थात् इच्छित पृथिवीसे मिट्टी लेकर हाथ धोये ॥५॥ ___अर्थ-उस समय समञ्चनक्षत्रपतेः-समीचीन आचरणसे युक्त क्षत्रियशिरोमणि एवं सदाचारभूतः-सदाचारको धारण करनेवाले राजा जयकुमारकी कुरला करनेकी क्रिया सम्पन्न हुई । उनकी वह कुरला करनेकी विधि चन्द्रमाके मूर्तिधारी प्रसाद गुणके समान जान पड़ती थी। चन्द्रमाके पक्षमें समञ्चनक्षत्रपतेः-पदका अर्थ होता है समीचीन गतिसे युक्त नक्षत्रोंके स्वामी और सदाचारभृतः का अर्थ होता है सदा-सर्वदा गतिगील-गमन करने वाला ॥६॥ ___ अर्थ-जो हीरेके खण्डोंके समान चमकीले दांतोंसे सहित थे तथा सत्पुरुषोंके मार्गका निर्वाह करना हो जिनका लक्ष्य था, ऐसे जयकुमारने उस समय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org