________________
८८८ जयोदय-महाकाव्यम्
[३-५ हेतुना तीर्थेशानां वृषभादीनां जन्माभिषवा यत्र भवन्ति सा सुमेरुपर्वतस्था पाण्डुशिला समीश्रिता स्मृता, यतः सार्धचन्द्रसमाकारेति ॥२॥ हृदीव शुद्ध मुकुरे मुखं स निजीयमात्मानमिवात्मशंसः । ददर्श संघर्षवशेन तत्रानुवत्तिमासाद्यतमामसत्राम् ॥३॥
हृदीवेति-स्वहस्ततलरेखादर्शनानन्तरं पुनः स जयकुमारः संहर्षस्य प्रमोदस्य वशेन हेतुना शुद्ध श्वेतरूपे पारदर्शकस्वभाव वा पक्षे मत्सरत्वादिरहिते मुकुरे दर्पणे हृदीव यथा हृदयेऽन्तः किलात्मशंसोऽध्यात्मप्रेमी आत्मानमुपयोगलक्षणमिवासत्रां कपटजितामनुवृत्तिप्रतिमां पक्षे पुनः पुनरनुभूतिमासाद्य लब्ध्वा 'सत्र यज्ञे सदादाने कैतवे वचने वने' इति विश्वः । निजीयं स्वकीयं मुखं ददर्श ॥३॥
एकाकि एवानुययो प्रभूतां भुवं मलोत्सर्जनहेतुभूताम् । मौनीभवन् योनिरिव व्रतानां कमण्डलुं प्राप्य पुनर्जलानाम् ॥४॥
एकाकीत्यादि-पुनर्दर्पणदर्शनानन्तरं शय्यातः समुत्थाय स जयकुमारो नाम राजा व्रतानाहिंसादिलक्षणाना योनिःस्थानं मुनिरिव मौनी मौनग्रहणपूर्वक एकाको स्वयमनन्यसहाय एव जलानां कमण्डलुनाम पाशं प्राप्य करे कृत्वा मलस्य पुरोषस्य पक्षे पापस्योत्सर्जनं परित्यजनं तस्य हेतुभूतां करणरूपां प्रभूतामसंकटां भुवं जन्त्वादिदोषवजितां भुवं पृथ्वीमनुययो जगाम ॥४॥ जवात् कृताशौचविधिः पवित्रीभूताशयत्वावधना धरित्रीम् । पस्पर्श हस्तेन स कोमलेन निजप्रियां वारिभवोज्ज्वलेन ॥५॥ ___ जवादित्यादि-अधुना साम्प्रतं कृत आशौचविषिर्येन स कृताशौचविधिर्जयकुमारः पवित्रीभूताशयत्वात् पवित्रीभूत आशयोऽभ्यन्तरपरिणामो यस्य तत्त्वात् जवात् त्वरितमेव
स्मरण किया, जिसपर तीर्थंकरोंके जन्माभिषेक होते हैं ॥२॥
अर्थ-हस्ततलकी रेखाओंके द्वारा पाण्डुकशिलाका स्मरण कर हर्षके वशीभूत जयकुमारने शुद्ध-कलुषतारहित ( पक्षमें मात्सर्यादिरहित ) दर्पणमें बार बार अपना मुख देखा और हृदय में आत्मानुभूतिको प्राप्त किया ॥३॥
अर्थ-दर्पण देखनेके बाद राजा जयकुमार मुनियोंके समान व्रतोंके स्थानभूत मौनको धारण करते हुए अकेले ही जलपात्र लेकर मल परित्यागमें कारणभूत मैदान वाली जमीनमें गये ॥४॥
अर्थ-तदनन्तर पवित्र होनेके अभिप्रायसे शीघ्र ही अशौचक्रियासे निवृत्त हो जयकुमारने कमलके समान कोमल अथवा वारि-जलके भाव-सद्भावसे उज्ज्वल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org