________________
८८०
जयोदय-महाकाव्यम्
[ ८९-९१ तल्पं कल्पय केवलं संकल्पय कृतिकर्म ।
विचर विचारशिरोमणे ! जनताया अनुशर्म ॥८९॥ तल्पमित्यादि-तल्पं शय्यां कल्पय मुञ्च । केवलं कृतिकर्म करणीयकार्य संकल्पय निश्चितं कुरु । हे विचारे तत्त्वविमर्श शिरोमणिः श्रेष्ठस्तत्सम्बुद्धौ जनताया जनसमूहस्य अनुशर्म सुखमुद्दिश्य विचर विचरणं कुरु । जनसमूहस्य हितं यथा स्यात्तथा कार्य कुरु । दोहकछन्दः ॥८९॥
एवं सम्प्रतिकविकृतवाचि मुदितप्रदीपदशायां काचित् । संवृत्ताब्जदलानुविकासिन्यपि यावद् भुवि परिणतिरासीत् ॥९०॥
एवमित्यादि-एवमुक्तप्रकारेण सम्प्रतिकविनाऽऽधुनिकेन काव्यकृता कृता यासो वाग् वाणी तस्याम्, कोदृश्यामिति चेत् ? मुदिता प्रसन्ना प्रदीपानां ह्रस्वदीर्घप्लुतसंज्ञितानां स्वराणां दशावस्था यस्यां तस्यामिति । यावत्कालं समीचीनानां वृत्तानां छन्दसामेवाब्जानां कमलानां दलस्य समुदायस्यानुविकासिनी परिणतिरप्यासीवभूत् । किंवा सम्प्रतिकविभिः प्राभातिकमङ्गलोक्तिकरैश्चारणैः कृता यासौ वाक् तस्यामित्यप्यवधारणीयम् । तथा च सम्प्रतिका तत्कालभवा विभिः पक्षिभिः कृता या वाक् कलकलध्वनिस्तस्या सत्यां मुदितास्तमिता प्रदीपानां दीपकानां दशा वतिका तस्यां सत्यां संवृत्तानां कुड्मलभावं गतानामब्जदलानामनुविकासिनी या परिपाटी सासीद्यावत्तावदेव यवभूतदुच्यते ॥९॥
मृदुतमस्तुतकचोपसंग्रहा संकुचन्ति उत सूक्तविग्रहा। मन्दस्पन्दितारका शयनासनादगात् क्षणवा सुरोचना ॥९॥ मृदुतमेत्यादि-मृदूनि कोमलानि तेमानि तिमिराण्येव स्तुताः प्रख्याता कचा:
अर्थ-हे विचार करने वालोंमें श्रेष्ठ राजन् ! शय्या छोड़िये, सिर्फ करने योग्य कार्यका संकल्प कीजिये तथा जनसमूहके सुखका ध्यान रखते हुए कार्य कीजिये ||८९॥
अर्थ-इस प्रकार जब हस्व, दीर्घ और प्लुत स्वरोंकी दशासे युक्त तथा समीचीन छन्दरूपी कमलोंके विकाससे सहित आधुनिक कवि-चारणोंकी वाणी प्रकट हो रही थी, अथवा प्रातःकालिक पक्षियोंकी कलकल ध्वनि तथा दीपकोंकी बत्तियाँ अस्तमित हो रही थीं, तब पृथिवीपर कमल दलोंको विकसित करने वाली परिणति हुई थी ॥९॥ १. 'ध्वान्तं संतमसं तमम्' इति धनञ्जयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org