________________
८७९
८७-८८]
अष्टादशः सर्गः भानोदर्शनमवनिपशस्य ! सङ्गमनाय रथाङ्गयुगस्य । ज्ञानं मरुतश्चरणं चारु मुक्तिर्मुकुलस्यास्ति यथारुक ॥८७॥ भानोरित्यादि-हे अवनिपशस्य ! नरपतिप्रधान ! संगमनाय संचारार्थमुत सन्मार्गप्रवृत्त्यर्थ भानोदर्शनमवलोकनं सन्मतोपलम्भनं च । रथाङ्गयुगस्य चक्रवाकमिथुनस्य संगमनाय परस्परमालिङ्गनाथं ज्ञानं प्रति बोधसन्मार्गप्रवृत्त्यर्थं च तथा मरुतो वातस्य चारुचरणं प्रचार आचरणं च, मुकुलस्य कुड्मलबन्धनस्य पुनर्मुक्तिरुन्मोचनं संसाराभावो वा यथारुक रुचमधिगम्य भवतीति यथारुक् ॥८७॥
कोकः शोकमपास्य याति दयितां लोकस्तु तां मुञ्चति भो कल्याणनिधे! विकासकलनामोकः श्रियामञ्चति । नो कस्मात्तव याति दोः कृतिविधि साधो ! कलाकौशलेऽहो कर्तव्यकथोपदेशकृदथो सूर्योऽस्ति पूर्वाचले ॥४८॥ कोक इत्यादि-भो कल्याणनिधे ! हे श्रेयोभाण्डार ! कोकश्चक्रवाकः शोकं विरहजनितं दुःखमपास्य दूरीकृत्य दयितां वल्लभां चक्रवाकी याति प्राप्नोति । तु किन्तु लोको जनो तां दयितां मुञ्चति । श्रियां लक्ष्मीणामोकः सदनं कमलमित्यर्थः, विकासकलनां प्रफुल्लतामञ्चति गच्छति । हे साधो ! तव दोर्बाहुः कलाकौशले कलाचातुर्ये कृतिविधि कार्यकरणप्रकारं कस्मात्कारणात् नो याति । अहो ! कर्तव्यकथानामुपदेशं करोतीति कर्तव्यकथोपदेशकृत् सूर्यः, अथोऽनन्तरमेव काले पूर्वाचलेऽस्ति विद्यते । सूर्यः पूर्वाचलमधिष्ठाय तव देवसिककार्यकरणाय कथयतीति भावः॥८॥
होनेके कारण) सन्मार्गदर्शकतया-आकाशके दिखानेसे (पक्षमें समीचीन मार्गके दिखानेसे) जगत्में तुम्हारा उपकार करे ।।८६॥ ___अर्थ-हे नरपतिप्रधान ! सूर्यका दर्शन चकवा-चकवीके मिलनके लिये है। सूर्य दर्शनसे यथार्थ ज्ञान होता है, वायुका सुन्दर संचार होता है और कमलकुड्मलकी बन्धमुक्ति भी होती है। यह सब कार्य रुचिके अनुसार होते हैं ।।८७॥
अर्थ-हे कल्याणके भाण्डार ! चकवा शोक छोड़कर वल्लभाके पास जा रहा है, परन्तु जनसाधारण वल्लभाको छोड़ रहा है । कमल प्रफुल्लताको प्राप्त हो रहा है, फिर हे सत्पुरुष ! आपकी भुजा कलाकौशलके विषयमें कर्तव्य विधिको क्यों नहीं प्राप्त हो रही है, यह आश्चर्यको बात है। कार्योंकी कथाका उपदेश करने वाला सूर्य अभी हालमें उदयाचल पर अधिष्ठित हो चुका है ।।८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org