________________
८७८
जयोदय- महाकाव्यम्
[८
श्रीवद्ध मानकस्तं पश्चिमतीर्थकरं दृष्ट्वा अयनस्य मोक्षमार्गस्य समीप इत्युपायनं मोक्षमार्गविषये भ्रमस्य संदेहस्य रवः शब्दोऽधो नीचैरञ्चति गच्छति, मोक्षमार्गविषये लोकस्य सन्देहो नश्यतीत्यर्थः । तत्तस्मात् कारणात्तस्य श्रीवद्ध मानजिनेन्द्रस्य अमृतस्रुतिमयों पीयूषप्रवाहरूपामुत मोक्षप्राप्तिरूपां गां वाणीं प्रतिपद्य लब्ध्वा लोकस्य जनसाधारणस्य घटो हृदयमेवं वेगात् किन्नोदेति मोक्षं प्रति किन्नोत्पतति ? जिनवाणीमाकर्ण्य भव्येन मोक्षप्राप्युपायः कर्तव्य इति भावः । अथ च भुवने जले लसन्तं शोभमानं श्रिया शोभया वद्ध मानमेवमानं कमलं कमलपुष्पं दृष्ट्वा भ्रमरस्य बोधो ज्ञानं तत् कमलपुष्पमुपायनमुपहारभूतमञ्चति गच्छति, जले विलसन्तं कमलमुपायनं मत्वा भ्रमरस्तदुपरि गच्छतीत्यर्थः । तस्य भ्रमरस्यानन्दत्राविणों झङ्कृति श्रुत्वा लोकस्य घटो हृदयमेवं वेगात् किन्नोदेति कि नोत्पतति, अपि तुत्पतत्येव ॥ ८५ ॥
निर्दोषतामनुभवन्तुत
केवलेन
प्राभातिकः समय एष नरेश तेन ।
सन्मार्गदर्शकतया विधृतोक्तिकत्वा
दर्हन्निवोपकुरुताद् भुवने किल त्वाम् ॥८६॥
निर्दोषतामित्यादि - हे नरेश ! एष प्राभातिकः प्रभातसम्बन्धी समयोऽर्हन्निव तीर्थकरपरमदेववत् केवलेन के सूर्येऽभ्युदयात्मकबलसद्भावेनोत केवलनामके नातीन्द्रियज्ञानेन निर्दोषतां रात्रिरहितता तथा रागादिदोषरहिततामनुभवन् विभिः पक्षिभिर्धृताऽभिव्यञ्जितोक्तिः शब्दपरम्पराऽथवा जीवन्मुक्तदशायां विधृता दिव्यध्वनिरेतत्कत्वात् सन्मार्गस्याकाशस्योत मुक्तिवर्त्मनो दर्शकतया त्वामुपकुरुतात् ॥८६॥
मोक्षमार्ग के विषयमें होने वाले सन्देहकारक शब्द नष्ट हो जाते हैं । फिर उनकी वाहिणी वाणीको प्राप्तकर लोगोंका हृदय मोक्ष के प्रति वेगसे पुरुषार्थं क्यों नहीं करता ?
अर्थान्तर - भुवन - जलमें खिले हुए कमलको देखकर भ्रमरबोध - भ्रमरका ज्ञान उसे उपहार समझ प्राप्त करता है । उस भ्रमरकी आनन्ददायिनो झङ्कार सुनकर मनुष्यका हृदय वेगसे क्या नहीं उछलता ? अर्थात् उछलता ही है ||८५ ||
Jain Education International
अर्थ - हे नरेश ! यह प्रातःकाल सम्बन्धी समय, अर्हन्त भगवान्के समान, केवलेन - सूर्यके उदयरूप अभ्युदयसे ( पक्ष में केवलज्ञान नामक अतीन्द्रिय ज्ञानसे) निर्दोषता - रात्रिके अभावका ( पक्ष में वीतरागताका ) अनुभव करता हुआ, विधृतोक्तिकत्वात्-पक्षियोंके शब्दोंको धारण करनेसे ( पक्ष में दिव्य ध्वनिसे युक्त
For Private & Personal Use Only
www.jainelibrary.org