________________
८४-८५]
अष्टादशः सर्गः
८७७
गान्धीरुषः प्रहर एत्यमृतक्रमाय
सत्सूत नेहरुचयो बृहदुत्सवाय । राजेन्द्रराष्ट्रपरिरक्षणकृत्तवाय
मत्राभ्युदेतु सहजेन हि सम्प्रदायः ॥८४॥ गान्धीत्यादि-राज्ञां राजसु वेन्द्रस्तत्सम्बुद्धौ हे राजेन्द्र ! जयकुमार ! उषःप्रहरे प्रातर्यामे धीर्बुखिः, पुंसामिति शेषः, अमृतस्य मोक्षस्य क्रमः प्राप्तिस्तस्मै गां पुण्यपाठरूप वाणीमति प्राप्नोति । प्रातर्वेलायां पुण्यपाठं कुर्वन्ति मोक्षाभिलाषिण इति भावः। उत पुनरिह प्रातःसमये सत्सु नक्षत्रषु रुचयो दीप्तयो बृहदुत्सवाव महोत्सवाय न भवन्तीनि शेषः । अत्रह भारते राष्ट्रस्य परिरक्षणं करोतीति राष्ट्रपरिरक्षणकृत् देशरक्षाकरस्तवां जयकुमारस्यायं सम्प्रदायः सम्प्रददातोति सम्प्रदः स चासौ अयः शुभावहो विधिश्चेति । तथा हि निश्चयेन सहजेन सहजस्वभावतयाभ्युदेतु समृद्धि प्राप्नोतु । अथ च गान्धी एतन्नामा राष्ट्रपिता तस्य रुट् कोपस्तस्य प्रहरी निराकर्ता नेहरुचयो जवाहरलालनेहरुपरिवारः सत्सु सज्जनेषु बृहदुत्सवाय प्रधानमन्त्रित्वेन महोत्सवाय एति आगच्छति । गान्धीः शान्तिवादी नेहरु चयश्च उग्रवादी बभूव । तदुग्रतां दृष्ट्वा गान्धीः कदाचिद्रोषं प्रदर्शयति स्म । अन्ते नेहरुरपि शान्तिप्रियो बभूव । एतेन स तस्य रुषोऽपहर्ता जातः । राजेन्द्रश्चासौ राष्टपरिरक्षणकृच्चेति तथा प्रथमराष्ट्रपती राजेन्द्रप्रसादः। अत्र देशे तवायं सम्प्रदायो राष्ट्रनेतृपरिकरः सहजेनाभ्युदेतु समृद्धि प्राप्नोतु ॥ ८४ ॥ श्रीवर्धमानकमलं भुवने लसन्तं
दृष्ट्वाञ्चति भ्रमरवोऽध उपायनं तत् । तस्यामृतत्रुतिमयीं प्रतिपद्य हे गां
लोकस्य किन्न घट एवमुदेति वेगात् ॥४५॥ श्रोत्यादि-हे राजन् ! भुवने लोके अलमत्यन्तं लसन्तं शोभमानं श्रीवद्धमान एव
अर्थ-हे राजाओंके इन्द्र ! प्रातःकालके पहरमें उत्तम पुरुषोंकी बुद्धि अमृतत्व प्राप्त करनेके लिये पुण्य पाठरूप वाणीको प्राप्त होती है। इस समय सत्-नक्षत्रोंमें दीप्ति महान् उत्सवके लिये नहीं होती, अर्थात् नक्षत्र निष्प्रभ हो जाते हैं। अतः राष्ट्र की रक्षा करने वाला आपका यह समीचीन भाग्य सहज स्वभावसे वृद्धिको प्राप्त हो। गांधीजीके रोषको दूर करने वाला नेहरु परिवार सत्सु-सज्जनोंमें महान् उत्सवके लिये तत्पर है और राष्ट्रपति डा. राजेन्द्रप्रसाद, यह सब राष्ट्रनेताओंका परिकर अभ्युदयको प्राप्त हो ।। ८४ ॥
अर्थ-संसारमें अतिशय शोभायमान श्रीमहावीर स्वामीके दर्शन करनेसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org