________________
८७६
जयोदय- महाकाव्यम्
यद्वा सुगां धियमिता विनतिस्तु राजगोपाल उत्सवधरस्तव धेनुरागात् ।
हृष्टा सरोजिनि अथो विषमेषु जिन्नानुष्ठानमेति
यद्वेत्यादि - हे राजन् ! यद्वा तव विनतिर्विनीतता सुखेन गच्छतीति सुगां निर्बाध - गतिशालिनीं धियं बुद्धिमिता प्राप्ता । किञ्च धेनुषु रागस्तस्माद् गोपालानां गोपानां राजेति राजगोपालः, राजवात्तिकवत्प्रयोगः, उत्सवस्योल्लासस्य घर इत्युत्सवधरः, तब गोरक्षणप्रणाल्या सर्वे गोपालाः सोत्सवाः सन्ति । सरोजिनी कमलवल्ली हृष्टा विकसिता । art fee विगमेषुः कामस्तं जयतीति विषमेषुजिन्मदनविजयी वा पुरुषः परमात्मविदः परमात्मानं वेत्तीति परमात्मवित् तस्यैकभागत्वात् तस्यैकांशरूपत्वादिह प्रातः समयेऽनुष्ठानं सामायिकजिनपूजनादिकं प्रशस्तकार्यमेति प्राप्नोति । अथ च ते तव विनतिर्नम्रता शिक्षा वा सुगांप्रियं गांधीति प्रसिद्धो राष्ट्रपुरुषस्तस्येदं गांधियं शोभनं गान्धियं सुगान्धियं गान्धीसम्बन्धिकार्यमिता प्राप्ता तदनुसारिणी वर्तत इति यावत् । धेनुरागाद् गोसंरक्षणविचारात्, राजगोपालः राजगोपालाचार्येति प्रसिद्धो राजनेता उत्सवधरः प्रसन्नो वर्तते । एतस्मादेव सरोजिनि 'सरोजिनी नायडू' इति प्रसिद्धा राजनेत्री हृष्टा संप्राप्तहर्षा वर्तते । किञ्च, जिन्ना एतन्नामा यवननेता विषमेषु हिन्दूयवनविरोधेषु अनुष्ठानं हिन्दुस्तान-पाकिस्तानविभजनरूपं कार्यमति । कथंभूतोऽसौ ? परं परकीयं भारतवर्षमात्मानं स्वकीयं वेत्ति मन्यत इति परमात्मवित् । एकश्चासौ भागश्चेत्येकभागस्तस्मात् । भारतवर्षस्यैको भागो मदीयो वर्तत इति बुद्धधा ॥ ८३ ॥
[ ८३
परमात्मविदेकभागात् ॥८३॥
अर्थ- हे राजन् ! आपकी विनीतता उत्तम गतिशील बुद्धिको प्राप्त है । आपकी गोरक्षाकी प्रीतिसे राजके सब गोपाल आनन्द मना रहे हैं । इस प्रातलामें कर्मालिनी हर्षित - विकसित है और मदनविजयी पुरुष अपने आपको परमात्मा - परब्रह्मका एक अंश माननेसे संध्यावन्दनादि अनुष्ठान - प्रशस्त कार्य कर रहे हैं !
Jain Education International
अर्थान्तर - हे राजन् ! आपकी विनम्रता या शिक्षा गांधी जी की विनम्रता या शिक्षाका अनुसरण कर रही है । आपके गोप्रेमसे राजगोपालाचार्य आनन्दका अनुभव कर रहे है तथा सरोजिनी नायड़ प्रसन्न हैं। सिर्फ एक ओर जिन्ना नामक यवननेता परकीय भारतको अपना मानते हुए विषम- पारस्परिक विरोधके कार्यों में हिन्दुस्तान-पाकिस्तान के विभाजनका अनुष्ठान कर रहे हैं ॥ ८३ ॥
For Private & Personal Use Only
www.jainelibrary.org