________________
६७-६८ ]
अष्टादशः सर्गः
वस्त्रस्य निर्मलता यथा भवति तथाकाशस्य वैशद्यमिदानीमस्ति । सकला हरितो दिशास्तास्तु पुनरत्र स्नाता इव भवन्तु शुद्धिमवाप्ताः। रविश्च प्राग्भूभृतः पूर्वपर्वतनामनरपतेस्तिलकवदाविभाति मूनि वर्तते। चन्द्रस्तु चौरवदुदास्ते निष्प्रभस्सन्नितः प्रयाति निर्गच्छति ॥६६॥ सद्वारिशौक्तिकति स्वयमेव तेषु
संबिभ्रती कमलिनी कलपल्लवेषु । उद्घाटितस्वनयना निजवल्लभस्या
सौ स्वागतार्थमभियाति हितैकवश्या ॥६७।। सद्वारीत्यादि-असौ दृक्पथगता कमलिनी हितैकवश्या प्रेमपरायणा सती उद्घाटितानि स्वनयनानि नाम नयनस्थानीयानि कमलानि यया सा, निजवल्लभस्य सूर्यस्य स्वागतार्थ तेष्वात्मीयेषु कलपल्लवेषु मृदुलदलेषु यद्वा हस्तकिसल्येषु सद्वारि शौक्तिकति सन्ति प्रशंसायोग्यानि वारीणि बिन्दुरूपत्वमाप्तानि यद्वा सत्प्रशस्तं वारि नैर्मल्यं येषां तानि च तानि शौक्तिकानि मुक्ताफलानि तेषां पङ्कित बिभ्रती संदधती स्वयमेव भाति शोभते ॥ ६७ ॥ उच्चैस्तनं स्पृशति कुडमलमर्कदेव
स्तत्रत्यकेशरकृतोपशरीरमेव । अस्यापहृत्य जयिनः कललोहितत्वं
श्रीवारिजातविततेः समुदायसत्त्वम् ॥६८॥ उच्चस्तनमित्यादि-अर्कदेवः सूर्यनामनरपतिः स श्रीवारिजातविततेः कमलिन्याः कुडमलं समुदायसत्त्वं संग्रहरूपतामापन्नमुत मुदः प्रसन्नताया आयस्य सत्वेन सहितं समुदायसत्वमत एवोच्चस्तनमुन्नतिगतं स्तनं स्पृशति । तत एवास्य सूर्यस्य केशरेण
दिशाएं स्नान कियेके समान-शुद्ध हो रही है, सूर्य पूर्वाचल रूप राजाके मस्तक पर तिलकके समान सुशोभित हो रहा है और चन्द्रमा चौरके समान उदास ( निष्प्रभ ) हो यहाँसे जा रहा है ।। ६६ ।।
अर्थ-यह प्रेमपरायणा कमलिनी कमलरूप नेत्र खोलकर अपने पति-सूर्यके स्वागतके लिये कोमल पल्लव रूप हाथोंमें जलबिन्दु रूप मोतियोंकी पंक्तिको धारण करती हुई स्वयं सुशोभित हो रही है ।। ६७ ।।
अर्थ-यतश्च सूर्य नामक राजा कमलिनी रूप स्त्रीके स्थूल एवं उन्नत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org