________________
८६४
जयोदय-महाकाव्यम्
[६५-६६ नैकान्तयुक् सपदि देहभृतोऽधिकारः
___ स्याद्वादतत्परतया नियतो विचारः । नैवाप्युलूकतनयप्रभृतेः प्रचारः
इत्यर्हतः समुदयस्तपनस्य तारः ॥६५॥ नैकान्तेत्यादि-सम्प्रति देहनतो मानवस्याधिकार एकान्तेन युक्त इत्येकान्तयुग राविरतत्वादेवान्तवासतत्परो न विद्यतेऽथवा देहभृतो देहपोषणतत्परस्य चार्वाकस्य एकान्तयुग एकान्तवादासक्तोऽधिकारो मतप्रसारो न विद्यते । वीनां पक्षिगां चारो गमनं वादे कलकलकरण तत्परतया नियत: स्याद् अस्ति । पक्षिणः कलकलरवं कुर्वाणा एव समुत्पतन्तीत्यर्थः । अथ च विचारः पदार्थस्वरूपविमर्शः स्याद्वादे कथञ्चिद्वादे तत्परता तया नियतो निश्चितः । दार्शनिका विद्वांसः स्याद्वादपद्धत्यैव तत्त्वविचारं कुर्वन्तीत्यर्थः । उलूकतनयप्रभृते रात्रिचरकादिपक्षिणां प्रचारः पर्यटनं नास्ति, सर्वे तेऽन्तहितास्तिष्ठन्तीत्यर्थः। इतीत्थमहतः श्लाघनीयस्य लोकयात्राकारणेन प्रशस्तस्य तपनस्य सूर्यस्य सारः श्रेष्ठसमुदय उद्गमो विद्यत इति शेषः । अथ च तपनस्य प्रतापवतोऽर्हतः प्रक्षीणघातिकर्मणो जिनवरस्य सारः श्रेष्ठसमुदयः सम्यक्प्रभावो वर्तते ॥ ६५ ॥
नैर्मल्यमेति किल धौमिवाम्बरंतु
स्नाता इवात्र सकला हरितो भवन्तु । प्राग्भूभतस्तिलकवद् रविराविभाति
चन्द्रस्तु चौरवदुदास इतः प्रयाति ॥६६॥ नैर्मल्यमित्यादि-अम्बरमाकाशं वस्त्र वा धौतमिव किल नैमल्यमेति, भालनेन
अर्थ-इस समय देहधारी मानवकी प्रवृत्ति एकान्तवादसे युक्त नहीं है, पक्षियोंका परिभ्रमण नियमसे कल-कल शब्दसे युक्त हो रहा है, उलूक आदि रात्रिचर पक्षियोंका प्रचार नहीं है और प्रशस्त-लोकोपकारी सूर्यका श्रेष्ठ उदय हो रहा है। __ अर्थान्तर-इस समय एकान्तवादके पोषक चार्वाक मतका अधिकार नहीं है, जितना भी तत्त्वविचार होता है, वह स्याद्वाद-कथंचिद्वादके अनुरूप होता है। उलूकपाद ऋषिके मतका प्रचार नहीं है, किन्तु प्रतापयुक्त अर्हन्त देवका ही श्रेष्ठ अभ्युदय हो रहा है ।। ६५ ॥
अर्थ-अम्बर-आकाश वस्त्रके समान निर्मलताको प्राप्त हो रहा है, समस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org