________________
१७-१८] अष्टादशः सर्गः
८३३ कस्मादस्ति ? 'आचारे व्यवहारे च चुल्लावक्षः समिष्यते' । 'पालने पालके तः स्यात्', 'कृत्स्नं स्यादुदरे जले' इति च विश्वलोचने ।। १६ ॥ हे नाथ ! नाथ भवतो भवतोऽपि शस्य
रूपस्य पश्य कथमद्य किलाशुभावः । सन्तृप्तये भवभृतां भवतात् समाय
कायस्य यस्य बहुधान्यहितप्रभावः ॥१७॥ हे नाथेत्यादि-हे नाथ ! भवभूतामस्मदादीनां सन्तृप्तये सम्यगाजीवनमेव समाय एव कायो यस्य तस्य । अथ च समस्य प्रशान्तिपरिणामस्याय एव कायो यस्य तस्य महानुभावस्य सर्वदेवान्यहिताय परोपकाराय प्रभावोऽथवा बहुरनल्पो योऽसौ धान्यहितप्रभावोऽभूदोदनरूपपरिणामो जातस्तस्यैव भवतस्तव भेवतोऽपि जन्मत एव शस्यरूपस्य प्रशंसनीयस्वरूपस्याथ च धान्यस्वरूपस्यापि किलाद्या भावः शीघ्रपरिणामोऽथवा व्रीहिभावः कथमिव न भवतात्। प्रभातसमयत्वात् सामायिकक्रियाएं शीघ्रमेवोत्थानं कर्तव्यमिति यावत् ॥ १७ ॥ मन्दाग्निरुग्युगभवद्दिननाथकान्ता
सन्दर्शितश्वयथुशार्वरमप्युपान्तात् । नेत्राण्यमूनि तिमिराख्यमथाप्यधू रे
दोषं किलौषधिपती प्रतियाति दूरे ॥१८॥
भी तुम्हारी दृढ़मुष्टिता-अनुदारता क्यों है ? मुट्ठी खोल कर उसे अक्षत क्यों नहीं देती हो ? ॥ १६ ॥ ____ अर्थ-हे नाथ ! हम भवभृतां-जन्मधारी प्राणियों की तृप्तिके लिये सम्यक् परिपालन अथवा प्रशान्त परिणाम रूप शरीरसे सहित तथा भवतःजन्मसे ही प्रशंसनीय रूपसे युक्त भवतः-आपका सदा अन्यजन हितकारी प्रभाव क्यों न हो ? अवश्य हो। ___ अर्थान्तर-हे नाथ ! आप भवतः-जन्मसे ही शस्यरूप हैं-धन्यरूप हैं, सबको जीवित रखना ही जिसका काय-लक्ष्य है तथा धान्योंमें जिसका बहुत प्रभाव है, अर्थात् जो सर्वश्रेष्ठ धान्य माना जाता है, ऐसे आपका आशुभावधान्यरूप परिणाम क्यों न हो ? अवश्य हो ॥ १७ ॥
१. भवशब्दात्तसिल् प्रत्ययः । २. 'आशुभही क्लीबं तु सत्वरे' इति विश्वलोचनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org