________________
८२८ जयोदय-महाकाव्यम्
[१०-११ मधुपानं कुर्वन्ति, अम्भोरुहणि विकसन्ति, बालदिनकरश्च प्राच्यामुदेतीत्येवमिह वणितम् ॥ ९ ॥ यन्नाक्षि चाक्षिपदहो पलकांशमासा
मेणीदशां तु रतिरासबृहद्विलासात् । प्राभूज्जवाद्रजनिनिर्गमनैकनाम
सन्देशकस्य पटहस्य रवोऽभिरामः ॥ १०॥ यन्नाक्षीत्यादि-उल्लिखितेषु कार्येषु सत्सु यत्र रजन्यामासामेणीदृशां मृगाक्षीणामक्षि नयनं रतिरासस्य सुरतक्रीडाया यो बृहद् विलासस्तस्मात् पलकांशं पक्ष्मपातलवं नाक्षिपत् नैव चिक्षेप, क्रीडातिरेकात्ता नयनपक्षमपातमपि नाकुर्वन्निति भावः। तथाभूताया रजन्या रात्रेनिर्गमनं निःसरणमेवैकमद्वितीयं नाम यस्य तथाभूतः सन्देशो यस्य, कपसमासान्तः, एवंभूतस्य पटहस्यानकस्य 'आनकः पटहो ढक्का' इत्यमरः। अभिरामो मनोहरो रवशब्दः, जवाद् वेगात् प्राभूत्प्रकटितो बभूव ॥ १० ॥ विश्रान्तिमभ्युपगते तु विभातर्फे
श्रीमेदिनीरमणधाम समाययुर्ये । सूता जगुः सुमृदुमज्जुलमुत्सवाय ।
रात्रिव्यतीतिविनिवेदनकारणाय ॥११॥ विश्रान्तिमित्यादि-तु पुनः विभाततूर्ये प्रभातवादित्रे विश्रान्तिमभ्युपगते सति, तद्ध्वनिविरामानन्तरमित्यर्थः। ये सूता मागधाः स्तुतिपाठका श्रीमेदिनीरमणस्य राज्ञो जयकुमारस्य धाम भवनं समाययुः समागतास्ते उत्सवाय उल्लासाय रात्र यंतीतिळपगमस्तस्या विनिवेदनं सूचनं तस्य करणाय विधानाय सुमृदुमज़ुलं कोमलकान्तपदावलीसहितं यथा स्यात्तथा जगुर्गायन्ति स्म ॥११॥
वाला बाल दिनकर अतिशय सुशोभित कौस्तुभ मणिकी आकृतिको प्राप्त हो रहा था ॥९॥ ____ अर्थ-आश्चर्य है कि जिस रात्रि में इन मृगनयनी स्त्रियों ने रति क्रीडा के विस्तारसे आँखकी पलक भी नहीं झपने दी वह रात्रि अब जा रही है-पूर्ण हो रही है, यही एक संदेश देनेके लिये मानों दुन्दुभि का मनोहर शब्द हो रहा है ।। १०॥ __अर्थ-प्रातःकालीन वादित्रके विश्रान्त होनेपर जो स्तुतिपाठक-चारण राजभवन में आये थे, वे उत्सवकी वृद्धि तथा रात्रि समाप्ति की सूचना देनेके लिये कोमलकान्त पदावली से गान करने लगे ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org