________________
५-६] सप्तदशः सर्गः
८२५ लुप्तोऽवषिगतिवशामितो रत्नाना हीरकादीनामुरुरनल्पो निचयः संग्रहो यस्य तस्मिन्निति । अधुनैव पुनस्तत्पुत्रस्थानीये चन्द्र निष्करवशां किरणरहितावस्थामुत हस्तहीनतां प्रयाते तदन्वेषणयोग्यताभावे सतीत्यर्थः । तथंव घूके काकारिपक्षिणि अपकर्मणो कर्तव्यताविहीने नयने चक्षुषी यस्य तस्मिन् व्रतमेवाकस्मादेव जातेऽन्वेषणकर्मण्ययोग्ये सति तवन्वेषणार्थमन्यः कः स्यादित्यस्माद्ध तोः किलाभिगमायान्वेषणार्थमिव वाते मन्दं चरति शनैः शनै
ति सति । वायोः स्वाभाविकं मन्दगमनमन्वेषगाय कल्पितमित्युत्प्रेक्षा ॥४॥ सुप्ते विजित्य जगतां त्रितयं तु कामे लुप्ते त दीयधनुषो विरवेऽति वामे। उप्ते रथाङ्गयुगचञ्चुपुटेऽभिरामेऽहोरात्रकस्य मधुरे चरमेऽत्र यामे ॥५॥
सुप्त इत्यादि-कामे मदने जगतां त्रितयं लोकत्रयं विजित्य स्ववशीकृत्य सुप्ते प्राप्तस्वापे सति, तदीयधनुषो मदन शरासनस्य अयिवामे करतरे विरवे विशिष्टास्फालनशब्बे लुप्से प्रशान्ते सति, अत्र प्रभातवेलायाम् अहोरात्रकस्य रात्रिदिवस्य मधुरे मनोहरे चरमऽन्त्ये याम प्रहरे अभिरामे संयोगजन्यप्रसन्नतयाभिरामे मनोज्ञे रथाङ्गयुगस्य चक्रवाकमिथुनस्य चञ्चपुटे चञ्च्वभ्यन्तरे उप्ते प्राप्तवपने सति विलीने सतीत्यर्थः ॥५॥
मन्दत्वमश्चति विधोर्मधुरे प्रकाशे
पर्याप्तिमिच्छति चकोरकृते विलासे । सस्पन्वभावमधिगच्छति वारिजाते.
सर्वत्र कीर्णमकरन्दिनि वाति वाते ॥६॥ मन्दत्वमित्यादि-विधोश्चन्द्रस्य मधुरे मनोहरे प्रकाशे मन्दत्वमल्पत्वमञ्चति प्राप्नुवति सति, चकोरः जीवंजीवैः पक्षिभिः 'जीवंजीवश्चकोरकः इत्यमरः' कृते विहिते विलासे
आकाश था, उसका विशाल रत्नोंका संग्रह (नक्षत्र-समूह) लुप्त हो गया-लूट लिया गया । पुत्र तुल्य जो चन्द्रमा था वह निष्कर-किरण रहित (पक्षमें हस्तरहित) अवस्थाको प्राप्त हो गया अर्थात् चन्द्रमा आकाशके लुप्त रत्नोंको खोजने में असमर्थ हो गया और रात्रिमें विचरने वाले जो उलूक थे उनके नेत्र देखनेमें असमर्थ हो गये, अतः किसी सहायकको न पाकर वायु स्वयं ही उन लुप्त रत्नोंके समूहको खोजनेके लिये ही मानों धीरे-धीरे जब चल रहा था ।।४।।
अर्थ-जब कामदेव तीनों जगत्को जीतकर सो गया था, जब कामदेवके धनुषको क्रूर टंकार लुप्त हो गई थी, जब रात-दिनका अन्तिम मनोहर प्रहर चकवा-चकवीके चञ्चूपुटमें विलीन हो गया था, जब चन्द्रमाका प्रशस्त प्रकाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org