________________
८२२ जयोदय-महाकाव्यम्
[१३१-१॥ रतान्त इति-रतान्ते सुरतावसाने भूयः पुनर्विलोलेन. चञ्चलेन शयकिसलयेन करपल्लवेन दशनवसनमधरोष्ठं प्रोञ्छितवती प्रोच्छितं कुर्वन्ती, उज्ज्वला बन्ता यस्यास्सा तथाभूता धवलदशना, शिथिलानि रतिबाहुल्येन निःसहानि अङ्गानि यस्याः सा, तस्य रतस्य परिणतिः समप्तिर्यस्यास्तथाभूता सा, इदानी पत्युर्वल्लभस्य वक्त्र मुखं तरलितवृशा रत्यतिरेकभयेन घपलदृष्टया मुहुः पुनः पुनः, इक्षितवती पश्यन्ती सा एवं 'तष साधुता दृष्टा' व्यङ्ग्येन विहस्य हास्यं कृत्वा रेजे शुशुभे ।।१३०॥ रत्यन्तं गत्वाप्यवदाने याचन्त्या वसनं बहुमाने । सरोषकुटिलं सम्पश्यन्त्या रुचिरुचितैवाथवा हसन्त्याः ॥१३१॥
रत्यन्तमित्यादि-रत्यन्तं सुरतावसानं गत्वापि याचन्त्या वल्लभाया वसनं वस्त्र बहुमानयुते भर्तरि अददाने प्रदत्तवति सति सरोषकुटिलं यथा स्यात्तथा पश्यन्त्या अथवा 'मामकोनं वस्त्रं मह्य न ददासि तहि कस्यै दास्यसि ? स्वयं वा धास्यसि' इति व्यङ्ग्येन हसन्त्या रुचिः शोभा उचितैव तदवसरयोग्यैवासोदिति शेषः ॥ १३१॥ सुप्ता कामकलाश्रमात्कुलवधूः पूर्व प्रबुद्धापि वा
रन्तुः श्रीसखनिद्रितस्य ललितं दोःपाशसम्पद्रसम् । तस्थौ निश्चलसत्तविलसतः संच्छेत्तुमेषाधुना
नागच्छत्सुविचारचेष्टितमना वाञ्छैकसंभावनाम् ॥१३२॥
सुप्तेत्यादि-अधुना सुरतावसाने एषा कुलवधूः सुलोचना कामकलाश्रमाद् रतिकेलिखेदात् सुप्ता प्राप्तस्वापा पूर्व पत्युः प्राक् प्रबुद्धापि जागृतापि श्रीसुखनिद्रितस्य निद्रानिमग्नस्य विलसतः शोभमानस्य रन्तुर्वल्लभस्य ललितं सुन्दरं दो पाशो भुजपाश एव सम्पद् सम्पत्तिस्तस्या रसमानन्दं संछेत्तुदूरीक वाञ्छकसंभावनां वाञ्छाया एकाद्वितीया सम्भावना तां नागच्छत्वल्लभभुजबन्धनमपनेतु नाचकाङ्क्ष किन्तु सुविचारेषु शोभनविचारेषु चेष्टितं मनो यस्यास्तथाभूता सती निश्चला निश्चेष्टा सती प्रशस्ता तनुः शरीरं यस्यास्तादृशीभूता तस्थौ स्थितवती ॥१३२॥
(सुरतवासना नाम षडर चक्रवन्धः) श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणमस्त्रियं घृतवरी देवो च यं धीचयम् । अस्भिस्तद्विहिते निरेति दशमः सप्ताधिकोऽङ्कः प्रिया
शिष्टानां सुरतोपहारकरणः संसूक्तयुक्तक्रियः ॥१३३॥
श्रीमानित्यादि-व्याख्यानं पूर्ववत् ॥१३३॥ इति श्रीवाण भूषण-ब्र० भूरामलशास्त्रिविरचिते जयोदयमहाकाव्ये सप्तदशः सर्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org