SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ८२० जयोदय-महाकाव्यम् [ १२२-१२६ नवनीतमित्यादि-तस्याः सुलोचनाया वपुः शरीरं तदेव नवनीत नवीनतया लब्धं नववयस्कत्वात्तथा म्रक्षणं मृदुलतमं भूत्वा, तच्च पूतपुण्यमेव पयो दुग्धं तस्मादुच्चितिरुत्पत्तिर्यस्य तत्समाराधयतः सन्दधानस्य तस्य जयकुमारस्य स्थितिः शोभनेन तक्रक्रमेण महिता संकलिता । अथवा सुतस्य क्रमे पुत्रोत्पत्तिकरणे हितानुकूला जाता ॥१२२॥ मुखं मुकुलमाचुम्बन कुलीनो न लतां नयन् । समग्रभावतो गत्वा शान्ततामाप सुभ्रवः ।।१२३॥ मुखमित्यादि-सुभ्र वः सुलोचनाया मुखमाननं तदेव लज्जानुभावादिना मुकुलं कुड्मलमिव सम्भूतम् । ततस्तन्नलतां कमलरूपतां नयन् विकसितं कुर्वन् कुलीनः सज्जातिमान् जयकुमारः समग्रभावतः पूर्णरूपेण शान्ततामाप सुखमनुबभूव । तथा तदेव मुकुलं मुखं मुकारस्य रवं नाशो यत्र तत् कुलमित्येवंभूतं नलतां लकाररहिततां नयन् केवलं कुलीनः कुकारमात्रपरायणः सन्, सं सकारमने प्रथमे यत्र तत् सकु इति तद्भावतः पुनः शान्ततां शकारोऽन्ते यस्य तत्तां शकारान्तता सकुशता प्रसन्नतया रोमाञ्चभावमापेति यावत् ॥१२३॥ सुरोचितकविलग्नात् सुवर्णसूत्रधृक् भवन् । नाभितोयमधीत्यापि जलजातवदाबभौ ॥१२४॥ सुरोचितेत्यादि-सुरोचितमेव सुरोचितकं तच्च तद्विलग्नं मध्यं च तस्मात्परमसुन्दरकटिप्रदेशात् सुवर्णसूत्रधृक् काञ्चीदामापहारको भवन् सन्नयं जयकुमारो नाभितो नाम सुलोचनायास्तुण्डीसमीपमधीत्य गत्वा जलजातवत्कमलवत्प्रसन्नवदन आबभाविति प्रकृतोऽर्थः । तथा सुरेषूचितो यः कविः शुक्रस्तल्लग्नात् प्रदेशात् सुवर्णसूत्रधृग् भवन् ललिताक्षरं सूक्तमाश्रयन् सन् अयं ना मनुष्योऽभितः समन्तादधीत्य पठित्वापि पुनर्जडजातवन्मूर्खस्य पुत्रवदाबभी। तथा सुवर्णसूत्रधृक् शोभनरज्जूधारको भवन्नपि सुरोचितात्कस्य जलस्य . विलग्नात् स्थानात्तोयस्य समीपमभितोयमधीत्य गत्वापि जलजातवन्न बभावित्यपि ॥ १२४ ॥ सुरतसमुद्राद् हृदयामः खलु शर्मवारिसम्भरणम् । - भृशमित्यर्थात्सुदृशः समभाद् गद्गदगिरोद्धरणम् ॥१२५॥ सुरतेत्यादि-सुदृशो हृदयामत्रेऽन्तरङ्गपात्र घटे सुरतसमुद्रात् शर्मवारिणः सम्भरणं बभूवेत्यत एवार्थाद् भृशं वारं वारं गद्गदगिरोद्धरणं समभात् खलु इत्युत्प्रेक्षा ॥ १२५ ॥ सुरतरङ्गिणि उत्कलिकावतो तरणिरद्य न विद्यत इत्यतः । पृथुलकुम्भयुगं हृदि सन्दधद् धनरसस्य स पारमुपागतः ॥१२६॥ सुरतरङ्गिणीत्यादि-सुरतरङ्गिणी सुरतस्य रङ्गवती तथैव सुरतरङ्गिणी भागीरथी गङ्गवोत्कलिकावती समुत्कण्ठावती लहरिमती चाभूत् तथापि तरणिः सूर्योऽद्य न विद्यते रात्रिरस्ति पक्षे नौका नास्तीत्यतः कारणात् पृथुलयोरतिविस्तृतयोः कुम्भयोः कुचरूपयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy