SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ११९-१२२] सप्तदशः सर्गः अषरमित्यादि-रमण्या इमं रमणीकमधरं नामौष्ठं शश्वन्मधुरं नित्यमेव स्वावुरसं समाश्रयन् सन्नपि स पुण्यजनानामीश्वरः स्वामी जयः समन्तात्पावनः पवित्र एवासीत्, न किन्तु इतरजनवत् पापभागभूत् । तथा चाधरमकारधारकं पुनर्मधुरं मकारो धुरि यस्य ततश्च रमणीकं रकारो मणिवदग्रवर्ती यस्य तं समाश्रयन् नामामरमिति गत्वा समन्तात्पुनस्तस्यान्ते पावनः पकारस्यावनं परिरक्षणं यस्यैवं शीलोऽमरपो मघवा सन् पुनरपि पुण्यजनेश्वरो नाम दानवेन्द्रोऽभूदिति । यद्वाऽधरं धरावजितं मधवे नाम दैत्याय रोऽग्निभंस्मकारको यत तत एव रमणीकं स्वर्गवन्मनोहरमिति च समर्थनीयमस्ति तावत् ॥११८॥ आननेनारविन्वेन शर्वरी सोऽन्वभून्मुदे । सदामलक्षणं. बाला तद्वक्षः समभावयत् ॥११९॥ ___ आननेनेत्यादि-स जयकुमार आननेनारविन्देन मुखेनैव कमलेन तं शर्वरी युवति मवे प्रसन्नतार्थमन्वभूत् । किञ्च, न रवि दवातीरविन्दस्तेनारविन्देन नाम चन्द्रेण शर्वरी नाम रात्रिमिवान्वभूतां मुदे सः । सा च बाला तस्य वक्षःस्थलं सवामलक्षणं बाम्ना माल्येन सहितं सवाम, तदेव लक्षणं यस्य तत्तथा सदैवामलं शुद्ध प्रकाशरूपं क्षणं पत्र तं विवसमिव पवित्र समभावयत् । रात्रिदिवसयोश्च सङ्गमः प्रकृतिसिद्धः ॥११९॥ वलिसमोदरं नाभिजातगतं नतभ्रवः । वामनोहरभावेन नरस्तावत् समध्यगात् ॥१२०॥ वलिसद्धेत्यादि-नतभ्रुव उदरं बलिनामकस्यावयवस्य पक्षे वलिनाम्नोऽसुरराजस्य सय स्थान नाभ्यास्तुण्डिकाया जातो गर्तो यत्र पक्षे नाभिजातमसुन्दरं गतं यत्र पातालगतत्वात् तत्, नरो जयकुमारो हरिश्च वा मनोहरभावेन सुन्वरत्वेन पले वामनस्योहं रातोति तद्भावेन खर्वरूपसूक्ष्मरूपसम्पादकत्वेन समध्यगात् जगाम तावत् ॥१२०॥ तवेकवतिना भानुभानितां तामपश्चिमाम् । सरोमाञ्चतया गत्वा सा कुशेशयता श्रिता ॥१२१॥ तवेकवतिनेत्यादि-तस्यामेवैकं व्रतं स्वीकरणं यस्य तेन तदेकवतिना कुशेशयता वर्भासने शयनशीलताऽथवा कुशेशयता कमलरूपता श्रिता। भया शोभयानुभानितां यद्वा भानुना भानितामलकृतां तामपश्चिमां स्त्रीषु प्रथममेव गणनीयां तथा प्राची नाम दिशां गत्वा लब्ध्वा रोमाञ्चैः सहितता सरोमाञ्चता तथा सरो जलाशय एव माञ्चं पर्यत शयनस्थानं यस्य तत्तया वा। यथा सूर्योदययुतां पूर्वदिशां दृष्ट्वा कमलं विकसितं भवति तथैव साभूदिति ॥१२१॥ नवनीतं वपुस्तस्याः पूतपुण्यपयोभवम् । समाराधयतो जाता सुतक्रमहिता स्थितिः ॥१२२।। १. 'शर्वरी तु त्रियामायां हरिद्रायोषितोरपि' इति विश्वलोचनः ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy