________________
जयोदय- महाकाव्यम्
[ ११५-११८
सुवर्णघटकत्वेनाक्षर सम्पादकत्वेन गुरुतां शिक्षकतामगात् । तथा चालंकतु काम आभूषणमिच्छुरभूत्तदा सुवर्णघटकत्वेन हेमकारत्वेन तस्या उरो गुरुतामगात् । किञ्च यदाञ्चलं वस्त्रपल्लवमाकतु कामस्तस्य वारक: करप्रचारोऽभूत्तदा तस्या वक्षः सुवर्णघटकत्वेन कनककलशात्मत्वेन गुरुतां गौरवमाप कुचप्राकट्यमभूत् ॥ ११४॥
८१८
सकामादावथ क्षान्तां समुपेत्य तदन्वयम् । अन्ततो वञ्चितं कृत्वा रङ्गतत्त्वमितोऽभवत् ॥ ११५ ॥
सकेत्यादि - अथ कुचालिङ्गनानन्तरं तत्रादौ ककारेण सहितां सकां पुनः क्षकारोऽन्ते यस्यास्तां क्षान्तां कक्षां करधनीमुपेत्यानु पुनरयं जयकुमारो 'अम्' इत्यंकारं पुनवं वकारं चितं संगृहीतं कृत्वा रम् रकारं गच्छतीति तत् तस्या अम्बरस्याधोवस्त्रस्य तत्त्वमितस्तबुद्धानं गतोऽभूत् । एवंकाम आदौ क्षान्तां मदनस्थले क्षमावती समुपेत्यान्ततः पुनस्तस्या अन्वयं लज्जानुभावादिरूपं प्रकरणं वञ्चितं कृत्वानुनयादिना निराकृत्य रङ्गस्य नाम रात्रिवृत्तस्य तत्त्वमितोऽभवत् ।। ११५ ।।
स्वाद्यं मृदुलमध्यापा भान्तमःस्थेन्दुमञ्चतः । सत्सुखं जनसत्वं तु सुलभं समभूदतः ॥ ११६ ॥ स्वाद्यमित्यादि - मृदुलः सुकोमलो मध्योऽवलग्नप्रदेशो यस्यास्तस्याः स्वाद्यमास्वादनयोग्यं भान्तं शोभायमानमास्येन्दु मुखचन्द्रमसं तावदञ्चतः स्वीकुर्वतस्तस्य जयस्य सत् प्रशंसनीयं सुखं यस्य तत् जनसत्त्वं मनुष्यत्वमथ च सत्सु मध्ये खञ्जनसत्त्वं चकोरपक्षित्वं तु पुनः सुलभं समभूत्, यथा चन्द्रमसि चकोरानुरागस्तथा तत्र तस्यानुरागोऽभूदित्थतः । मृदुर्लकारो मध्ये यस्यास्तस्याः सुकार आदौ भवति यत्र तत्स्वायं तथा भकारोऽन्ते वर्तते यत्र तं भान्तमास्येन्दुमञ्चतः सुलभत्वं युक्तमेवेति ॥ ११६ ॥
सरोमध्यमन्त्यजेनान्वितं
उदयन्तं तृष्णावानेन सोऽप्यासीदपि कञ्जमुखो भवन् ॥ ११७ ॥
श्रयन् ।
उदयन्तमित्यादि -- स जयकुमार उदयन्तमुन्नति गच्छन्तं सजलमपि सरोमध्यं जलाशयाङ्कमन्त्यजेन चाण्डालेनान्वितं श्रयन् पश्यन् कञ्जमुखो जलजातमुखोऽपि तृष्णावानवासीज्जलं न पीतवात् यतः । तथा चोदित्युकारेण यः संविधानं यस्थ, किञ्चान्तेभवोsन्त्यो जकारो यस्य, तथा रोकारेण सहितं मध्यं यस्य तनुरोजं नताङ्गयाः स्तन देशं श्रयन् स कञ्जमुखः कमलवत्प्रसन्नमुखो भवन् तृष्णावानभिलाषी आसीत् ॥११७॥
Jain Education International
अधरं मधुरं शश्वद्रमणीकं समाश्रयन् । समन्तात् पावनोऽप्यासीदपि पुण्य जनेश्वरः ॥ ११८ ॥
For Private & Personal Use Only
www.jainelibrary.org