SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ११२-११४ ] सप्तदशः सर्गः ८१७ गौरीत्यादिद- अत्र स्मरति कथं कार्यं किं विधेयमित्यनुशोचति सम्प्रति समस्यामधिगम्य पुरुषोत्तमे नरश्रेष्ठे जयकुमारे तस्या वसनं दुकूलं हरति सति सा आशु शीघ्रोच्चारणमागता भारती वाणी 'मा मे वसनमपहर' इत्यादिरूपतया प्रत्युक्तिर्यस्यास्सा राजते स्म, खलु या रन्तु योग्या रमा गौरी नवयौवना च या । या च तस्मिन् पुरुषोत्तम कृष्ण इव कौतुकवति भवति रमा लक्ष्मीरिव सती तथा समस्यामधिगम्य स्मरति स्मर इवाचरति सति शुभा रतिरिव । तथा तस्या वसनमधिगम्य हरति हर इवाचरति सति गौरी पार्वतीव राजते स्म ॥ १११ ॥ शाटीमिव बहुगुणां ति तु तनो निशायामप्यधिगन्तुः । संकुचतातिशयेन नानापद्यीणा स्मरवोणा समवाप ॥ ११२ ॥ शाटामित्यादि -- स्मरस्य वीणेव मधुरभाषिणी सुलोचना ति सुरतक्रीडां शाटीमिव बहवो गुणाश्चुम्बनालिङ्गनादयः पक्षे तन्तवश्च यत्र तामधिगन्तुरनुभवनकर्तुर्भर्तुस्तनौ शरीरे चैव तनौ स्वल्पविस्तारे, अथवा तनौ निशायां लघुरूपायां रात्रौ तत्र संकुचताया: शोभनस्तनत्वस्यातिशयेन नानानेकविधा यन्मर्दनादिरूपा यस्यास्सा, एवं होणा लज्जावती । तथा च संकुचता संकोचवतातिशयेन प्रभावेणानापद् निर्विघ्ना सती । अपि च संकुचतायाः सुदृढोरोजताया अतिशयेन च तां समवाप परिपूर्ण कृतवती ॥ ११२ ॥ सद्यस्तनस्तबकभार महोदयेन पुष्टापि सज्जघनमूलसमुच्चयेन । जातात्र संकलित रूपगतेन कामा रामाविभूचितविहारवनीव रामा ॥ ११३ ॥ सद्य इत्यादिद-वामा स्त्री सा सुलोचना विभूचितो वैभवसम्पन्नस्य योग्यो विहारो यस्यां सा सौवनीवात्र जाता सम्बभूव यतः सा संकलितं सम्पादितं रूपं सौन्दर्यगतेन । अथ च शोभनाः कलयः कोरकाणि यत्र ते च ते तरवो वृक्षाश्च तानुपगतेन सह्यस्तनावभिनवकुचावेव स्तबकौ किञ्च सद्यस्तनास्तत्कालसंजाता ये स्तबका: पुष्पगुच्छकास्तेषां भारस्य महोदयेनापि, पुनः सत्समीचीनं यज्जघनमूलं श्रोणिपुरोभागरूपं तस्य समुबा संहर्षितेन चयेन प्रचारेण, अथ च सज्जानि धनानि च तानि मूलानि तेषां समुच्चयेन संग्रहेण पुष्टा सम्पन्नावयवा ततः कामस्य मदनोन्मादस्यारामः पर्यायोः ॥ ११३ ॥ अञ्चलं च यदा कर्तुकामोऽभूत्तस्य वारकः । सुवर्णघटकत्वेनारस्तस्या गुरुतामगात् ॥ ११४ ॥ अञ्चलमित्यादिद- तस्य जयस्य वारको नाम शिशुर्यदा खल्वं च पुनर्लमित्यनेन नालं नाम समस्तमक्षरसमूहमाकर्तुकामः स्वीकर्तुमिच्छुरभूत् तदा सुलोचनाया उरःस्थलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy