________________
८१६
जयोदय-महाकाव्यम्
[ १०८-११० णास्तिः कामदेवप्रतीतमार्गसदुपासनेयमस्ति । किञ्चाङ्गं यत् किञ्चिदप्यवयवरूपं न भवति यत्र तदनङ्गमित्युक्तम् ॥१०७॥ वामा नवा मापि यथोत्तरं सा रक्तोऽभवच्छोहरितोऽपि वंशात् । जातो ह्यपीतो मधुराभिराभिः कषायलः कामधुरः क्रियाभिः ॥१०८॥
वामेत्यादि--सा सुलोचना वामापि न वामा कुटिलापि सरलेति विरोधस्ततः सा नवा नूतना मा लक्ष्मोरेव वामा स्त्री आपि प्राप्ता । तेन जयेन ततः स श्रीहरितो नीलवर्णोऽपि रक्तोऽरुणवर्णोऽभवदिति विरोधस्ततः श्रीहरितः पुरुषोत्तमादपि यथोत्तरमधिकतरं रक्तोऽनुरक्तो जात इति । तथा वंशावणोर्जातः समुत्पन्नो हि अपीतः पीतवर्णरहित इति विरोधस्ततो वंशात्सत्कुलाज्जातो हि सोऽपीत इत्यत्र कामधुरः कामचेष्टाधारिण्या आभिरुपयुक्ताभिर्मधुराभिश्चेष्टाभिः क्रियाभिरपि कषायलः कषायरसयुक्त इति विरोषस्ततः कषायलोऽङ्गरागवानभूत् चन्दनादिविलेपयुक्तो जातः ॥१०८॥ सानुनयाधिगमा महिला सा मणितत्वार्थमिता मृदुहासा । बहुलोहमयः पार्श्वमुपेतः काञ्चनरुचि गतः स तथेतः ॥१०९॥
सानुनयेत्यादि-सा महिला स्त्री मृदुहासा ईषस्मितवती अनुनयेन चाटुकारेण सहितोऽधिगमः संगमो यस्यास्सा, यथा मणितत्वं सुरतरवत्वमेवार्थ प्रयोजनमिता नीता प्राप्ता वा, तथा पार्श्वमुपेतः समीपं गतः स जयकुमारो बहुलोहमयो नानातर्कवितर्कयुक्तस्सन् काञ्चनानिर्वचनीयां रुचि गतः। अपि च सानोनयेन पर्वतस्य रूपेणाधिगमः परिज्ञानं यस्यास्सा महिला पृथ्वीप्राया सा मणीनां हीरकादिरत्नानां तत्त्वार्थेन रूपेण मितानुमानिता, तथैव लोहमय आयसरूपस्स पार्श्वनामपाषाणमुपेतस्सन् काञ्चनस्य स्वर्णस्य रुचि गतः ॥१०९॥
पीता सुरोचनापि जयेन नीतानुरागमप्युत तेन । हरिताश्रयेण यात्र रमेदं धवलत्वं स्वात्मनो विवेद ॥११॥ पीतेत्यादि-सा सुरोचना रमा लक्ष्मीरिव हरितायाः पुरुषोत्तमत्वस्याश्रमेण स्थानेन तेन जयेन पीता सम्भुक्तास्वादिता सत्यनुरागं नीता प्रीतिभावं प्राप्ता। अत्र स्वात्मनो निजरूपस्य 'धवलत्वं भतू सनाथतां विवेद । यापि सुरोचना गोरोचनद्रव्यं सा पीता पिङ्गलवर्णा तु पुनारागं लालिमानं नीता, धमेणायासेन कृत्वा हरिता नीलतां नीता धवलत्वं शुक्लतां च विवेदानुभूतवतीति बहुरूपतां तदावाप सा ॥११०॥ गौरी सम्प्रति साशु भारती राजते स्म खलु या रमा सती । हरति वसनमधिगम्य समस्यां स्मरति च पुरुषोत्तमेऽत्र तस्याः ।।१११।।
१. धवं पति लाति गृहातोति धवलं तस्य भावस्तत्त्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org