SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १०५-१०७] सप्तदशः सर्गः ८१५ तद्रूपतामाप, तत एव सा यदा विधुश्चन्द्र इव प्रसन्नरूपा जाता तदा नदीनरय समुद्रस्य स्वरूपतामाप सः, चन्द्रेण समुद्रस्य प्रसत्तिभावात् तस्यामासक्तोऽभूदिति । तथा यदा सा तेन सह कं सुखं लातीति एवंरूपोऽन्वयः स्वभावो यस्याः सा पृथुरोमभावाद्रोमाञ्चितत्वाज्जाता तदा स समुद्रो मुद्रिकया युतो धनी मुदितः पूर्वस्मादप्यधिकप्रसन्नो बभूव । किं वा सा पृथुरोमभावान्मीनस्वभावत्वात् के जलं लातीत्येवंरूपा कलान्वया जलजीवनाभूत्तदा स समुद्रोऽपि मुदितो मुत्काररहितोऽर्थात्सरो जलाशयोऽभूत्तत्र व मीननिवसनात् । कि वा यदा सा कलान्वया चन्द्ररूपतः कदाचित्प्रच्युत्य कलारूपा संकुचिताभूत्तदा समुद्रोऽपि स सर एव जात इति ।।१०४॥ अनङ्गसौख्याय सदङ्गगम्या योच्चैस्तना नम्रमुखोति रम्या । विभ्राजते स्माविकृतस्वरूपा प्रसक्तिमाप्त्वा महिषोति भूपात् ॥१०५॥ ___ अनङ्गेत्यादि-या सुलोचना सद्भिः प्रशंसनीयैरङ्गैर्गम्याधिगमयोग्यापि पुनरङ्गसौख्यं न भवतीति तस्मादिति विरोधस्तस्मादनङ्गसौख्य सुरतानन्दस्तस्मै बभूव । या किलोच्चस्तनातिशयोन्नतापि नम्रमुखाति विरोधस्तत उच्चैःस्तनवती पुष्टस्तनोत्यतो लज्जावशान्नम्रमुखीत्येवं रूपतया रम्या रमणीया। तथा भूपाद्राज्ञः सकाशान्महिषी रक्ताक्षीत्येवं प्रसक्तिमाप्तापि पुनरविना मेषेण कृतं सम्पादितं स्वरूपं यस्या अजेत्येवं विरोधेऽविकृतः सर्वगुणसम्पन्नं स्वरूपं यस्या एवं भवती भूपान्महिषी पट्टराजीत्येवं प्रसक्तिमाप्त्वा विभ्राजते स्म ॥१०५॥ निलेतुमन्तस्त्वितरेतरस्यानिवाञ्छत श्रीमिथुनस्य यः स्यात् । विरोधहेतुः स्तनकः प्रियोरःसमुद्भवः स्पष्टतया कठोरः ॥१०६॥ निलेतुमित्यादि-इतरेतरस्यान्तनिलेतुमेको द्वितीयस्य हृदि प्रविश्यानन्यतामवाप्तुमभिवाञ्छतः श्रीमिथुनस्य सुलोचनाजयकुमारयोद्वितयस्य यः कश्चिदपि विरोधहेतुस्तदिच्छाया विरोधकारी बभूव स प्रियायाः सुलोचनाया उरसि समुद्भदः स्तनकः स्पष्टतया प्रकटमेव कठोर आसीत् ॥१०६॥ अनादिरूपा सुदृगित्यनेन ह्यनन्तरूपत्वमितं जयेन । अनाद्यनन्ता स्मरतिक्रियास्ति तयोरनङ्गोक्तपथाभ्युपास्तिः ॥१०७॥ अनादिरूपेत्यादि-आदौ पूर्वस्मिन् काले न जातं यत्तदनादि रूपं यस्याः साऽनादिरूपा सुदृक् सुलोचना। न विद्यतेऽन्तो यस्य तत्तादृगरूपं यस्य तस्य भावं जरारहितत्वमिति जयेनेतं प्राप्तम् । इत्यनेन हेतुना तयो यो रतिक्रिया अनादिरपूर्वा चानन्ता च निरन्तरास्ति स्म बभूव । तथा स्मरतिक्रियायामनादिरूपाऽऽदिवर्णरहिता रती रतिः सलोचना। अनन्तरूपोऽन्तवर्णरहितः स्मर इति च जयः। तयो योरनङ्गोक्तपथाम्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy