SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ८१४ जयोदय-महाकाव्यम् [१०१-१०४ शरीरमेतद्घनसारबिन्दोः समेत्य सद्वयञ्जनसत्त्वमिन्दोः । तुल्याननाया अमृतस्य धारा पिगल्य जाता द्वितयीव सांरात् ॥१०१॥ शरीरमित्यादि-इन्दोस्तुल्याननायाः सुलोचनायाः समीचीनानां व्यञ्जनानामवयवानां सत्त्वं यत्र तच्छरीरं समेत्य गत्वा घनोऽप्रविरलश्चासारश्च बिन्दुः शुक्रो यस्य तस्य जयस्य शरीरं पुनः सा द्वितयी तथा च सयजनस्य रुचिकारकस्य सत्त्वं समेत्य धनसारबिन्दोः कपूरांशस्य शरीरं तत्पुनः सा द्वितयो पिगल्यामृतधारा जाता। संयोगकाले तयोः शरीरं प्रस्वेदप्रायमभूत् । यथा कर्पूरं रुचिकरसत्वसंयोगे पिगलति तथा तयोः शरीरं परस्परसंयोगे सति पिगलति स्मेति यावत् ॥१०१॥ यथा सदैवास्य कथा सुवर्षा सौदामिनी साप्यभवत् सहर्षा । यदाप सा कल्पलताप्रकर्ष तदध्रिपोऽप्यम्बरमाचकर्ष ॥१०२।। यथेत्यादि-यथास्य जयस्य सदैव सर्वदैव सुवर्षा शोभनवर्षवती यौवनपूर्णरुचिकरी च कथा जाता तदा साऽसौ बाला दामिनी मालावती सहर्षाभवत् । यद्वास्य कथा सदैवा मेघसहिताऽत एव सुवर्षा सुवृष्टिकरी जाता तदा सा सौदामिनी तडिदपि सहर्षा चमत्कारिण्यभूत्। यदा च सा कल्पलता प्रकर्ष हर्षभावमाप तदा तदध्रिपः कल्पवृक्षोऽपि अम्बरमाचकर्षाकाशमलंचकार । यद्वा कल्पं कि कार्य किं न कार्य वेति विकल्पं लातीति तद्भावस्य प्रकर्षमाप लज्जाभयादिव वशंगता तदा स तदध्रिपस्तस्याश्चरणधरणोऽपि भवन्नम्बरं वस्त्र तस्या आचकर्षेति ॥१०२॥ तां माननीयां समयन् समाप: स्वभावतः सानुनयत्वमाप । रुषःस्थली सा पुरुषोऽत्र जातुचिदूनभावान्नवपुस्तदा तु ॥१०३।। तामित्यादि-तां मानेनाभिमानेन नीयां नीयमानां गर्ववती समयन् सम्बोषयन् क्षमापः सहनशीलो जयनृपः स्वभावत एवानुनयसहितत्वं सानुनयत्वमाप विनयानुनयं चकार यतः सा माननीया सम्मानयोग्या । अथवा तां माननीयां निश्चलभावतया पृथ्वीरूपां समयन् संगच्छन् क्षमापो राजा सानुनयत्वं तदने स्थितिमावहन् सन् पर्वतरूपतामचलभावमाप । यदा सा रुषःस्थली कोपवती जाता रुकारषकारस्थली जाता समभूत्तदा जातुचिदूनभावान्यूनपरिणामान्नवपुरशरीर इवा भूत् । किञ्च, नवः केवलः पुकार एव यस्य सोऽभूत् ।।१०३ विधुर्यदा कामधुरा नदीनस्वरूपतामाप तदा कुलीनः । कलान्वया चेत् पृथुरोमभावात्सासीत्समुद्रो मुदितस्तदा वा ॥१०४॥ विधुरित्यादि-यदा कामधुरा कामो धुरि अग्रभागे यस्याः सा विधुविंगतधुकारा कामरा कामधना वाञ्छितदायिनी चुम्बनादिषु बभूव तदा स कुलीनो दोनो न भवतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy