________________
८१३
९७-१०० ]
सप्तदशः सर्गः प्रत्युक्तवान्नाहमितः स्मरामि यतो नरे वात्र विभासि सामि । सम्बद्धतामेति करो यथा मे स्तनोऽप्यमुक्तस्तव किन्न राम ।।९७॥
प्रत्युक्तवानित्यादि-पूर्वोक्तं सरोषवाक्यं श्रुत्वा जयः प्रत्युक्तवान् यत्किल है रामे ! सुन्दरि ! इतोऽहं न स्मरामि नैव जानामि तत्कारणं यतोऽत्र तवानुकूलकारिण्यपि नरे मादृशे सामि वका सरोषा प्रतिकूलकी विभासि। तथा त्वमत्र नरे वा रतिरिवासि यतस्तत एवाहं न स्मरामि स्मर इव कामदेववदाचरामि । यतो यथैव मे करः सम्बद्धतामेति सम्यक्प्रकारेण बद्धोऽवरुद्धोऽस्ति तथैव तवापि स्तनः किममुक्तो मुक्तिरहितो नास्ति कि किन्तु समस्ति । तथा च में करः सम्बद्धतामेति संस्पर्शनं करोति तथैव तव रतनोऽप्यमुक्तो मौक्तिकैहोनः किं नास्ति । स्पर्शनमात्र गैव ते स्तनस्येदृशो दशा, किमहं करोमोति ॥९७॥ सुलोचना सोमसुतावितस्तु रतिस्मरो यत्प्रतिपक्षवस्तु । अभूत् प्रतिस्पर्धितयेव रङ्गभूमावितः स्फूर्तिकरः प्रसङ्गः ॥२८॥
सुलोचनेत्यादि- इतस्तु सुलोचना च सोमसुतश्च सोमप्रभनृपतितनूजो जयकुमारश्च स्तः, कथंभूतौ तौ ? रतिस्मरौ रतिकामदेवौ ययोः प्रतिपक्षवस्तु प्रतिस्पधिवस्तु आसीदिति शेषः । अत इतोऽत्र रङ्गभूमौ तयोः प्रतिस्पद्धितयेत्र मियो विजिगीषयेव स्फूर्तिकरः समुत्तेजनाकरः प्रसङ्गः संसर्गोऽभूदिति ॥९८॥ सुमेषुरुच्चैस्तनशैलमन्वास्थितो बभूवाप्यनुकर्णधन्वा । परागरङ्ग्यत्रमभूच्छमाम्भोऽनयोर्जयद्वीरभुवोस्त्रपाम्भो ।।१९।।
सुमेषरित्यादि-उच्चस्तनशैलमन्वास्थितः सुमेषुः कामोऽपि यदानुकर्णधन्वा समाकृष्टधनुर्बभूव तदानयोर्वीरभुवोर्दम्पत्योरलं तत्प्रहारेण निर्गतमा रुधिरं परागस्य तबाणगतपुष्परजसो रङ्गो वर्णो यत्र तत्परागरङ्गि सम्भवत् तयोस्त्रपां जयद् लज्जा छादयत् अमाम्भः प्रस्वेदजलमित्यादेशभागभूत् ।।९९॥
अपत्यभावाय च रोमराजीतो जागरित्वव्रतमित्यभाजि । तयाथ मुक्ताफलतान्वकारि समुत्थवर्माम्बुलवप्रकारिः ॥१०॥
अपत्यभावायत्यादि-पत्युरभावो वैधव्यं तस्याभावोऽपत्यभावः सौभाग्यं तस्मै तथाऽपत्यस्य भवनं भावः पुत्रोत्पत्तिस्तस्मै रोमाजिकयेति रोमराजीतस्तृतीयायां तसिल् । जागरित्वव्रतमित्यभाजि अञ्चनमुपात्तं जागरणं वा कृतम् । अथ च तया रोमराज्या समुत्थानां संजातानां धर्माम्बुलवानां प्रकारिः प्रक्रिया यत्र वंभूता मुक्ता परित्यक्ता चावफलता निष्फलत्वपरिणामोऽन्वकारि मौक्तिकभावः ।।१००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org