________________
८१२
जयोदय-महाकाव्यम्
[९३-९६ महाशये कूजति कण्ठकम्बो काञ्च्यां विपञ्च्यामपि संक्वणन्याम् । लासं गुरुस्तम्भरतो नितम्बश्चकार चारुस्मरवैजयन्त्याः ॥९३॥
महाशय इत्यादि-महाशये सुमधुरशब्दवति कण्ठकम्बो कूजति सति काञ्च्यामेव विपञ्च्यां वीणायां संक्वणन्त्यां शब्दं कुर्वन्त्यां सत्यां स्मरस्य कामदेवस्य वैजयन्ती पताकेव सुलोचना तस्या गुरुरतिस्थूलो यो सावरुरूपः स्तम्भस्तस्मिन् रतः प्रणिष्ठस्तदुपरिगतो नितम्बोऽथ च गुरुः स्थूलतरो नितम्बः स एव भरतो नृत्यकारकश्चारु लास नत्यं चकार ।। ९३ ॥
एकस्य मुक्तावलिरेव सारे बभूव भूषा च्युतहारचारे । छायालेन श्रवाःप्रसारे हृद्यन्यदीयेऽपि तयोरुदारे ॥९४॥ एकस्योत्यादि- तयोः संयुक्तयोर्दम्पत्योर्मध्ये एकस्य जयकुमारस्य मुक्तावलिरेव व्युतो निर्गतो हारस्य चारो यस्मात् तस्मिन् हाररहितेऽपि सारे सुविशदे चोवारेऽनतिसंकीर्णे अन्यदीये हृदि सुलोचनाया उरःस्थले श्रमवारा स्वेदजलानां प्रसारो यत्र तस्मिन् 'वारि के पयोऽम्भोऽम्बु' इति धनञ्जयनाममालायाम् । छायायाश्छलेत सम्पतितप्रतिबिम्बपदेन भूषालङ्कारं बभूव ॥ ९४ ॥ मिथस्तयोरुज्ज्वलबाहुवल्लिमतल्लिकालिङ्गनमण्डली या। हेमाब्जिनी बालमृणालजन्मा पाशो रतोशस्य स एव जीयात् ॥१५॥
मिथस्तयोरित्यादि-सा च स चेति तो तयोर्दम्पत्योः मिथः परस्परं या उज्ज्वलानां गौरवर्णानां बाहुवल्लिमतल्लिकानां भुजलताश्रीष्ठानामालिङ्गनमण्डली पुनः पुनर्जायमानसंश्लेषसन्ततिः स एव हेमाब्जिन्याः स्वर्णारविन्दिन्या बालमृणालेभ्यो मृदुविसेभ्यो जन्म यस्य स रतीशस्य मदनस्य पाशो बन्धनरजुः जीयात् जयवान् भूयात् । दम्पतिबाह्वालिङ्गनं मदनस्य पाश इवाभूदिति यावत् ॥ ९५ ॥ ममाप्युरोजे नखलक्षणापि वृत्तिविभो ते न खलक्षणापि । बालाह रोषात्तव साधुता वा ममाधरश्रीर्यदि साधुता वा ॥१६॥
ममेत्यादि-बाला सुलोचना रोषादेवमाह-हे विभो ! ममापि मृदुवयस्काया उरोजे नखानां लक्षणं चिह्नयया सा नखलक्षणा वृत्तिरापि स्वीकृता स्वयेयम् । तेऽपि कि खलु खलस्य धूर्तस्यैव क्षणोऽवसरो यत्र सा खलक्षणा वृत्तिर्नास्ति किन्तु समस्त्येव । वा पुनर्ममाधरस्योष्ठस्य श्रोः शोभा सा यावकाविकृता यदि धुताऽपहृता साऽसावेव तव साधुता सज्जनभावो वाऽवलोकितः ॥९६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org