SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ९०-९२ ] सप्तदशः सर्गः स्त्रिया इत्यादि - स्त्रियाः सुलोचनाया अन्तरीयेऽधोवस्त्र मुद्रा बन्धनग्रन्थिचिह्नविशेषस्तया सहितः समुद्रोऽय च वारिराशिस्तत्तातो राज्ञो जयकुमारस्य चन्द्रमसो वा करसन्निपातो हस्तप्रयोगो रश्मिसंसगो वा बभूव, यत्र कक्षाकला रसना कलापततिरेव कैर्वल्लभकरस्पर्शजातहर्षे रविणी शब्दायमाना, अथवा कैरविणी कुमुद्वतीव बभूव । तव नेत्राब्जयुगेन नयनक मलद्वितयेन न्यमीलि मीलनमङ्गीकृतं लज्जानुभावयुक्तानन्दसन्दोहेन चन्द्रमसः सम्प्रयोगेणेवेति यावत् ॥ ८९ ॥ शास्तारमाप्तवानुनयन्तमस्मद्दिगम्बरत्वं आनन्दसन्दोह पदैकभूवन्न समगादकस्मात् । सान्वभूद्यत्किमतो बभूव ॥ ९० ॥ शास्तारमित्यादि - अस्मादनन्तरं सा सुलोचना, हे सुन्दरि ! किं बिभेषि ? न न किमप्यं ते विकरोमि, त्रपाप्यत्र पापिनीत्येवंरूपेणानुनयन्तं विनम्रवचनोच्चारणं कुर्वन्तं शास्तारं स्वामिनमाप्त्वायवा तं कमपि अनुनयं नयानुसारं देशकालानुसारो वचनपद्धतिकारो नयस्तदनुसारं शास्तारं शास्त्रप्रणेतारमाप्त्वाऽकस्मादेव सहजतयेव दिगम्बरत्वं वस्त्ररहिततामथाकलङ्कपथारूढतामगत् स्वीचकार । अतः पुनरनन्तरं यत्किमभूत्तन्न सान्वभूवनिर्वचनीयानन्वभागभूत् श्रानन्दसन्दोहपदानां गुणस्थानानां भूः प्रणीतिस्तद्वद् गुणस्थानेषु सप्तमाद् गुणस्थानादुपरितमगुणस्थानेषु अबुद्धिपूर्वव चेष्टा भवतीति ॥ ९० ॥ Jain Education International ८११ स्तनौ वराङ्गं च परीच्छताहमुत्सृष्टमीशेन रुषेत्युताह । विलग्नकम्भोजदृशोऽत्र तेने भ्रूभङ्गमाप्त्याप वलिच्छलेन ॥ ९१ ॥ स्तनावित्यादि- - अत्र प्रणयप्रसङ्गे स्तनौ च वराङ्गं च परीच्छता सम्भुञ्जानेनेशेन भर्त्रा पुनरहं मध्यगतमुत्सृष्टं परित्यक्तमेवेत्येष पतिभेदः कृत इत्येवंभूतया रुषाम्बुजवृशोऽम्बुजनयनाया विलग्नं नामाङ्ग तत्तदानीमपवलिच्छलेन वलिभ्रंशनव्याजेन भङ्गमाप्त्वा भ्रुवोरुत्तानं कृत्वोत किल्लाह वदति स्म तावत् ॥ ९१ ॥ सुकण्ठकम्बुर्यदपूरितेन निरस्य लज्जायवनों स्मरेण । स्वेदोदपुष्पे सुदृशः सदङ्गे रतिः स्वयं मज्जु ननर्त रङ्गे ।। ९२ ।। सुकण्ठकम्बुरित्यादि -- सुदृशः सुलोचनायाः सवङ्ग एवं रङ्गे नृत्यस्थले तेन जगन्नर्तकेन स्मरेण लज्जाजवनों लज्जारूपां सावरणवस्त्रविस्तृति निरस्यापाकृत्य शोभनीयः कण्ठो गल एव कम्बुः शंखः सोऽपूरि परिपूरितः । स्वेदोदकान्येव प्रस्वेदविन्दव एव पुष्पाणि विकीर्णकुसुमस्थानीयानि यत्र तस्मिन् सदङ्गरङ्गे स्वयं रतिरेव मञ्ज स्पष्टतया ननर्त ॥ ९२ ॥ ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy