SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ८१० जयोदय-महाकाव्यम् [८४-८९ योग्येषु भोग्येष्वपि सम्प्रतीकेष्वन्येषु सम्प्रीतिमतो जनीके । रुचिहि सर्वप्रथमाधरे तु माधुर्यमेवात्र समस्ति हेतुः ॥८४॥ योग्येष्वित्यादि-अन्येषु ओष्ठात्परेषु सम्प्रतीकेषु अवयवेषु योग्येषु यथोचितेष्वत एव भोग्येषूदभोगयोग्येषु सत्स्वपि सम्प्रीतिमतो वल्लभस्य सर्वप्रथमा रुचिर्जनीके स्त्रीसम्बन्धिन्यधर एव जाता । अत्र माधुर्यमेव हेतुः समस्ति ॥८॥ सपक्षमादष्टवति प्रवालोपमं तु नेतर्यधरं पालोः । अजि सम्यग्वलयाकूलेन ससाध्वसेनेव पुनः शयेन ॥८५॥ सपक्षमित्यादि-त्रपालोलज्जावत्या अधरमोष्ठप्रदेशं यत्खलु प्रवालोपमं प्रवलालस्य विद्व मस्याथवा तु किसलयस्योपमा यत्र ति सपक्षं तुल्यमिणमादष्टवति सन्दशति सति नेतरि प्राणप्रिये तु पुनः सम्यग्वलयाकुलेन कङ्कणसहितेन शयेन हस्तेनापि ससाध्वसेनेनेव भययुक्तेन खलु, यथाऽधरं वष्टवांस्तथा मामपि कच्चिद्दशेदिति सम्यग्यथार्थमेवाकूजि ॥८६॥ न सा कृशानी विजगाह सम्यक् प्रियस्य वक्षः परिणाहरम्यम् । स्पृष्टुभवानुच्चकुचं सुकेश्याः शशाक किं तत्परिरम्भणेऽस्याः ॥८६॥ न सेत्यादि-तत्परिरम्भणे परस्परसमालिङ्गने मिथुनस्य सा सुलोचना यतः कृशाङ्गीत्यस्थूलशरीरा ततः परिणाहरम्यं सुविस्तृतं प्रियस्य वल्लभस्य वक्षःस्थलं तत् सम्यक न विजगाह अवगाहयितुमर्हा न बभूव तथैवास्याः सुकेश्या उच्चकुचमतिशयोन्नतं स्तनस्थलं स्पृष्टुभवानपि शशाक किं, किन्तु न सहजेन शशाकेति ॥८॥ कुचोच्चये संचरता जयेन सद्धारभासारमिताश्रितेन । सम्भावनाभीच्छितनिम्नसिद्धिर्यत्राभितश्चोदलनामविद्धि ॥८॥ कुचोच्चयेत्यादि-कुचोच्चये सुलोचनायाः स्तनमण्डले सञ्चरता संस्पर्शनं कुर्वता जयेन यत्र चासमन्तात्सारमासारं सद्धारं समीचीनं हारं नामाभूषणं श्रितेन, अथवा समीचीना व्यवधानरहिता धारा यस्य तं सद्धारमासारं प्रसारं जलपूरमित्यर्थः तं श्रितेन, सम्भावनाभीच्छितनिम्नसिद्धिः समीचीनी भावः स्थितिर्यस्यास्सा सम्भावा सा चासो नाभिश्च तया तस्यां वेच्छिता निम्नगस्याधःप्रदेशस्य सिद्धिः, तथा सम्भावनाभिरभीच्छिता या निम्नसिद्धिरिता प्राप्ता यत्र च, अभित इतस्ततः पर्यन्ततो होति निश्चयेनोदलनामविदस्तीति उदकं जलं लाति संवदातीति तदुदलं जलप्रायस्थलमथ रत्नयोरभेवादुदर इति च नामविद् ॥८॥ स्त्रियोऽन्तरीयेऽपि समुद्रतातः बभूव राज्ञः करसन्निपातः । कक्षाफलाकैरविणीव यत्रन्यमीलि नेत्राब्जयुगेन तत्र ॥८९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy