SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ८०८ जयोदय-महाकाव्यम् [७७-८८ नर इत्यादि-नरे प्रणेतरि चौरे वांशुक कुचाञ्चलं हरति सति तदानीं सुलोचना तन्निषेधार्थ कोदण्डकं भूप्रदेशं धनुर्वाऽऽततान चुकोपेत्यर्थः। सैव पुनस्तस्मिन्नरे नीव्यामन्तरोयबन्धनस्थाने मूलधने च करं कुर्वति सति कर्णपयोभुवा श्रवणस्थितेनोत्पलेन सन्दधाना प्रहरन्तीत्येवं सा मानादभिमानात् स्मरं मदनं सुमास्त्र किमुतनाह समाहैव । 'कोदण्डः कार्मुके भ्रवि', 'नोवी तु स्त्रीकटीवस्त्रग्रन्थौ मूलधने स्त्रियाम्' इति विश्वलोचने ॥७॥ हरत्यधीशे वसन कटीतः होर्यातु संश्लेषविरोधिनीतः । स्मिताम्बुभिः सिक्तमुरोजदेवविम्बं विनम्राननया तदेव ।।७७।। हरतीत्यादि-पूर्वोक्तरीया निषेधनेऽपि न निवर्त्य पुनरधीशे स्वामिनि कटीतो वसनं हरत्यपसारयति सति सा क्षणान्तरे विनिवृत्तमाना सती तदर्द्धसम्म तिरूपत्वेन, अथ इतः सम्भवन्ती ह्रीर्लज्जा या संश्लेषस्य पतिप्रसङ्गस्य विरोधिनी सा यातु निर्गच्छतु, इत्येवं स्मिताम्बुभिरीषद्धास्यजलैरुरोजदेवबिम्बं स्तनाभिधानदैवतप्रतिमानं तत्प्रसिद्ध सिक्तमभिसेचितं तया विनम्राननया नतमुख्या स्त्रियेति ॥७७॥ स्वमन्तरार्द्रत्वमुताह सम्यगनारतप्रेमरसैकगम्यम् । वपुर्दढाश्लेषिणि यूनि वासःक्नोपं पयो मुञ्चदनभासः ॥७॥ स्वमित्यादि-तत्तदाऽनङ्गभासोऽनङ्गस्य कामदेवस्य भाः प्रभावो यस्यास्तस्याः स्त्रियाः 'भा प्रभावे रुचि स्त्रियाम्' इति कोषात् । तस्या अनारतस्य निरन्तरसंजातस्य प्रेमरसस्यैकमनन्यतया गम्यमधीनं वपुः शरीरं तद्य नि तरुणवयस्त्वे स्वामिनि दृढाश्लेषिगि प्रगाढालिङ्गनवति सति वासःक्नोपं वस्त्रात्वकरं पयः प्रस्वेदात्मकं जलं मुञ्चत् सन्दवत् तावत् स्वं स्वकीयमन्तरभ्यन्तरस्यात्वं सम्यक् स्पष्टतयाऽऽह । आर्द्रत्वाभावे पयःप्रच्याबनासम्भवात् ॥७॥ चित्तेशचन्द्रस्य करोपलम्भे त्वानन्दसिन्धुई तमुज्जजम्भे। बहिर्बभूवाब्जदृशः सदेवस्वेदापदेशादुदकं तदेव ॥७९॥ चित्तशचन्द्रस्येत्यादि-चित्तेशो हृदयेश्वरः पतिः स एव चन्द्र आह्लादकरत्वात्तस्य करोपलम्भे हस्तसंस्पर्श किरणसंक्रमे च संजाते सति, एवं तदाब्जदृशः कमलनयनाया आनन्दसिन्धुहर्षसमुद्रो व्रतं तत्कालमेवोज्जजम्भे उच्छलितोऽभूत् चन्द्रसंसर्गे समुद्रोच्छलनस्य युक्तिसंगतत्वात् ततस्तत्सदुदकमेव स्वेदापदेशाद् बहिर्बभूव निर्जगामेति ॥७९॥ दीर्घागुलिः सङ्गवतो नृशद्रेः करोऽतिरिक्तोऽप्युदरे दरिद्रे । विसंकट श्रोणितटं तदर्थवत्याः समाप्त किमभूत्समर्थः ॥८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy