SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ७३-७६] सप्तदशः सर्गः ८०७ पुरेत्यादि-सा नवोढा पुरा सर्वप्रथमप्रसङ्गे तु नोविं गाढमरुणत् वृढतया संघृतवती, अथ पुद्वितीयसङ्गमे किञ्चिल्लज्जापगमात्तामेवादृढेन प्रशिथिलेनैव करेणारुणत्, ततः पुनरथ तृतीयसंगमे च नीवि केवलं न नेत्यनेन पदानुवादेन नैवं नवमित्युक्तिमात्रणेव न्यषेधयन्नतु करेणारुणत् । ततश्च पुनरनन्तरं रतेः रतक्रिया या असाक्षिणीवानभिज्ञेवाय ध रते प्रियसङ्गे योऽसौ रसस्तत्राक्षिशालिनीवानन्देन निमीलिते अक्षिणी यस्याः साभूत् ॥७२॥ वलित्रयोपासितविग्रहाय करद्वयी चापलमाप सा यत् । सम्भावयाम्यत्र तु तं तृतीयं सुदीर्घसूत्रं पुनरन्तरीयम् ॥७३॥ वलित्रयेत्यादि-वलित्रयेण नामावयवविशेषेणाथ वीरत्रयेणोपासितो यो विग्रहः शरीरं स्त्रिया रणस्थलं च तस्मै सा यूनः करद्वयी चापलमाप तु पुनर्यदत्र तृतीयमन्तरीयं नाम स्त्रिया अधोवस्त्र तवहं दीर्घसूत्र प्रलम्बमानतन्तुप्रायमतिशयेनालसं च सम्भावयामि । जयस्थ करौ तु समालिङ्गनोत्सुको जातौ किन्तु शाटकमत्रान्तरायमभूदिति यावत् ॥७३॥ समन्तरीयोद्भिवि सम्पतन्ती अपापगायां स्मरवैजयन्ती । प्रसङ्गतः संगतकण्टकत्वादभूदिवानीमुपलब्धोसत्त्वा ।।७४।। समन्तरीयेत्यादि-समन्तरीयस्य सुप्रशस्ताधोवस्त्रस्योद्भिदि सम्भेदनायां त्रपापगायां लज्जासरिति सम्पतन्ती सम्पातमाश्रयन्ती स्मरस्य नाम कामदेवस्य वैजयन्ती पताकेव सा सुलोचना तदानीमेव प्रसङ्गतः प्रियस्य संसर्गतोऽथवानुषङ्गिकरूपेण सङ्गतकष्टकत्वासमुद्भूतरोमाञ्चत्वात् संलग्नशकुत्वाच्चोपलब्धसत्त्वा समारब्धसहजानन्दा तथा चानिपतनशीलाभूत् । संकटसमये नद्यां पतितुमिच्छन्ती शकुप्रभृतिभिः संघट्य पुनः स्तब्धा भवति तथेयमन्तरीय भेदकाले त्रपानुभावमुपयाता तवानीमेव संश्लेषानन्दसम्भवेन रोमाञ्चेनावलम्बिताभूदिति ॥७॥ पत्यौ परीरम्भ परेऽभिजात मानन्द सन्दोहमिहाभ्युपात्तम् । अमेय मन्तः परिभायितुं द्रागियं चकम्पे किल हर्षरुन्द्रा ॥७५॥ पत्यावित्यादि-पत्यो प्राणेश्वरे परीरम्भपरे आलिङ्गनसंलग्ने जाते सति सम्प्रत्यभ्युपात्तमभिजातमुत्तममानन्दसन्दोहं यवन्तरभ्यन्तरे हृद्यमेयं सहजेनामान्तं द्राक् शीघ्रमेव परिमायितुं किलेयं सुलोचना हर्षेण रुन्द्रा सम्फुल्लपरिणामा सम्भवन्ती चकम्मे कम्पिताभूत् ॥७५॥ नरे हरत्यंशकमाततान कोदण्डकं कर्णपयोभुवा न। नोव्यां कर कुर्वति सन्दधाना स्मरं सुमास्त्रं किमु ताह मानात् ॥७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy