SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ जयोदय- महाकाव्यम् [ ६९-७२ पोनोonस्तम्भं स्थूल सक्तिस्तम्भं परामृशन् पुनः पुनः स्पृशन् प्रेमयुजो जयकुमारस्य वक्षश्चतुरः सामर्थ्यवान्वा कर इति शेषः मदनेभराजं कामकरिराजं विमोचयन्वा रराज शुशुभे । वेत्युत्प्रेक्षायाम् । 'कक्षा तु गृहे काञ्चीप्रकोष्ठयोः' इति विश्वलोचने ॥ ६८ ॥ आवर्तवत्या वलिनिम्नगाया मध्यंगतः पीनपयोधरायाः । ८०६ समन्दुकूलं स समैच्छदेवं चकार वाराकरवारमेव ॥ ६९ ॥ आवर्तवत्या इत्यादि - पीनपयोधराया अतिशयोच्चकुचाया आवर्तवत्या दक्षिणा वर्तात्मकनाभिसहिताया वलिनिम्नगाया उदरस्थितत्रिवलिनामनद्यास्तस्या मध्यंगतः सन्नुवरवेशमाश्रितो भवन् समं श्र ेष्ठं दुकूलं वस्त्रमन्तरीयाभिधं समैच्छत् समाकृष्टुमभ्यवाञ्छत् । एवं तदा वारा सा नवोढा करस्य वारं निवारणमेव चकार स्वामिसंदत्तहस्तस्यापकर्षणं चकार । अथवा स चौरबदुकूलमपहर्तुमगच्छत्तदा सा करवालं नामायुषं वर्शयामासेत्यपि सन्ध्येयस्तथा पीन पयोधराया अनल्पजलसहिताया आवर्तवत्या भ्रमणसहिता आवलयो लहरयो यस्यां सा च सा निम्नगा च तस्या मध्यंगतो ब्रडन् सन् स एवं सं समीचीनान्दुः स्थितिर्यत्र तच्च तत्कूलं तटं च तत् समैच्छत् तदा वारा नाम बालस्वभावापि सा करमेव वारं बालकं स्वकीयं लघुहस्तमेवालम्बनार्थं चकार बदाविति यावत् ॥ ६९॥ करस्य संहर्षधरस्य नाभ्यामाकर्षतो वस्त्रमदः कराभ्याम् । विरोद्धुमेतां कलिमप्रदृश्यां काठच्या शिशिज्जे वलयैश्च तस्याः ॥ ७० ॥ करस्येत्यादि - तस्या नाभ्यां वस्त्रमाकर्षतः करस्य जयकुमारहस्तस्यादः कराभ्याममुष्या हस्ताभ्यां सह संहर्षधरस्य स्पर्द्धावित एता मितरेतरसज्जातामतएवाप्रदृश्यामनवलोकनीयां कल विरोद्धुं मास्मभूयादेषां कलहसम्भूतिरिति सम्ववितुमेव काव्याः कटि मेखलाया वलयेश्च शिशिजे संशब्दितं तावत् ॥७०॥ तनूदरि स्वत्तनुमध्यमेतत् किमुष्ठिसंवाह्यमपीति मे तत् । शतच्छदोदारकरस्य नीवि निराचकारेति मिषात् स जीवी ॥ ७१ ॥ तनूदरीत्यादि हे तनूवरि ! स्वल्पोदर धारिणि ! एतत्त्वत्तनुमध्यं कटिस्थानं शतच्छववत्कमलवदुदारः सुविशाल करो यस्य तस्य मे तदेव मुष्टिसंवाह्यं मुष्टिना ग्रहणयोग्यमपि किं भवितुमर्हतीति मिषात् स समानं सदृशं जीवनं सधमण्या सह स जीवी जयकुमारो नीवि निराचकारेति ॥ ७१ ॥ Jain Education International पुरारुणद्गाढमथादृढेन करेण नीवि न नेत्यनेन । पदानुवादेन रतेरसाक्षिण्यभूदिवानन्द निमीलिताक्षी ॥७२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy