________________
६४-६८]
सप्तदशः सर्गः
८०५
कृष्टेंऽशुके गूढमुरोभुजाभ्यां सस्तेऽन्तरीय वृतजानु नाभ्याम् । बद्धक्षणे नेतरि तत्प्रतीपकर्णोत्पलेनास्तमितः प्रदीपः ॥६४।। कृष्टइत्यादि-अंशुक इत्यनेन कुवाञ्चले कृ टेपसारिते तया सुन्दर्या भुजाभ्यामुरो गूढमाच्छादितं । पुनरन्तरीयेऽधोवस्त्रे त्रस्ते वृते संकलिते च ते जान जङ्घ यत्र तत्तथाभूतं भूत्वा च तस्याः, अतः पुनर्नेतरि प्राणेश्वरे नाभ्यामनावरणभूतायां तुण्डिकायां तु बद्धक्षणे संधूतनेत्रे सति तस्य तन्नयनस्य प्रतीपः सौन्दर्यसाम्यस्पद्धनेनारिस्वरूपं यत्कर्णोत्पल तेन प्रदीप एवास्तमितो मुदितो यातो नयनव्यापारी न भूयादिति ।। ६४ ॥
हतपदीपेऽपि मयास्ति पोततमा निशा कि खलु सम्प्रतोतः । बालेति साश्चर्यसिता न ने तुरदाद् दृशं सन्मणिमौलये तु ॥६५॥ हृत प्रदीप इत्यादि-सम्प्रति मया हृतप्रदीपे मुदितदीपकेऽपीतः क्षेत्रऽसौ निशा पीततमाः प्रणष्टान्धकारा कि कुतः कारणादस्तीति न जाने, इत्येवं सा बाला मुग्धस्वभावाऽऽश्चर्येण प्रकृतविस्मयेन सिता श्वेततरा भवती नेतुः स्वामिनः सन्मणिमौलये प्रशस्तरत्नखचितमुकुटाय तु पुनशं चक्षुर्नादात् यतः तमःप्रणाशः ॥६५॥ न्यधात्सतो मूर्धमणौ स्वकर्णात् कजं च सत्कर्तुमिवात्तवर्णा । भूमण्डलेऽस्मिन्मणिकुण्डले तु समुद्धरन्ती द्युतिदान हेतू । ६६॥
न्यधादित्यादि-आत्तवर्णा लब्धप्रबोधा पुनः सा सतो महाशयस्य मूर्धमणो मुकुटरत्नस्योपरि सत्कतु पूजयितुमिव स्वकर्णात्कजं कमलं कर्णपुष्पमादाय न्यधावधी तदावरणकरणार्थ किन्तु अस्मिन् भूमि मण्डले द्युतिदानहेतू प्रदीप्तिसम्पादननिमित्त ते स्वकीये मणिकुण्डले रत्नमयकर्णभूषणे समुद्धरन्ती अभिव्यञ्जयन्ती सती सा भतु:किरीटाच्छावनकरणे प्रत्युत ।' कर्णकुण्डले प्रकटयाञ्चकारेति मुग्धाजातिः ॥६६॥ चरन्नरं प्रेमिकरः प्रतीरेऽत्र नाभिकूपे पतितो गभीरे । काञ्चोगुणं प्राप्य पुनः स नाम जवेन तन्व्या जघनं जगाम ॥६७॥
चरन्नित्यादि-अत्र सुलोचनाया अङ्गके प्रतोरे चरन् इतस्ततः पर्यटन् प्रेमिकरो जयकुमारहस्तो गभीरे नाभिकूपे पतितोऽपि सन्नरं शीघ्र स एव पुनर्नाम काञ्चीगुणं प्राप्य जवेनैव तन्व्या जघनं नामावयवं जगाम प्राप्तवान् ॥६७॥ दक्षोऽथ कक्षागुणतत्परेण पीनोरुकस्तम्भमितः करेण । परामृशन् प्रेमयुजो रराज विमोचयन्वा मदनेभराजम् ॥६८॥ बक्ष इत्यादि-अथानन्तरं इतोऽने कक्षागुणे काञ्चीदामनि तत्परेण करेण हस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org