________________
८०४
जयोदय-महाकाव्यम् पयोभुव इत्यादि-हे कुलीनकन्ये ! कम्पनराजपुत्रि! मम कलप्रवालेन करपल्लवेन तव पयोभुवः कुचस्य स्पर्शकृतालिङ्गनकारकेणाथवा कलप्रथालेनाबोषबालकेन तत्र पयोभुवः पानीयस्थानस्य जलकलशस्य स्पर्शकृता यदागः कृतमपराद्ध कुलीनजलघटस्य बालकेनास्पर्शनीयत्वात् तदेतदागोऽहं सन्मौलिमणि मुकुटरलमर्पयित्वा विशोधयामि परिहरामि नमामि च क्षमाप्रार्थनां करोमि । मम कोमलकरोऽसौ तव कठिनकठोरकुचप्रदेशस्योन्मर्वनकर्मणि न समर्थः केवलं स्पर्शनमेव कृतमिति समाश्वासनं बत्तं जयेन ॥ ६० ॥
साऽऽरोप्यहो सानुमतीव तेन वाहेन कृत्वा नवला बलेन । सदास्यशीतांशुनिचुम्बनेच्छानुभूतयेऽके स्वयमुन्नतेच्छा ॥६॥
सेत्याद-सत आस्यस्य मुखस्यैव होतांशोश्चन्द्रस्य यन्निचुम्बनमास्वादनं तदिच्छानुभूतये सा नवला नवपरिणीतात एवाच्छा स्पृहणीया तेन बलेन बल्लभेनानुमति सहिता सानुमतीव किल ततो बाहेन कृत्वा भुजेनासाथ स्वयं स्वस्योन्नतेऽङ्क उत्सङ्गे आरोपि धता। तथा च समीचीना आस्या स्थितिर्यस्य तस्य शीतांशोनिचुम्बनं संस्पर्शनं तदिच्छानुभूतये सा नबला बलहीना सती च वाहेन वाहनेन कृत्वा बलेन सामर्थ्यसम्पादनेन सानुमति पर्वत इवोन्नतेऽङ्क स्थाने कस्मिश्चिदप्यारोपोति। बालस्वभावतया चन्द्रस्पर्शनवाञ्छा युक्तैव । तथा घोटकाविष्वारोप्य पर्वताविषु समारोपणमपि तदर्थयुक्तमेव तावत् ॥ ६१॥
बलादुपालभ्य मुखं प्रबन्धकर्तर्यथो चुम्बति नीविबन्धः । सुमेषुचापभ्रुव एवमापद्भियेव सद्यः शिथिलत्वमाप ॥६२॥
बलादित्यदि-सुमेषुचापभ्रुव कामदेवधनुराकारकभ्रकुटीमत्याः सुलोचनाया मुखं बलात्कारेणापालभ्य समासाद्याथ पुनः प्रबन्धकर्तरि प्रणेतरि तच्चुम्बति सति तस्या नीविबन्धोऽधोवस्त्रग्रन्थिरप्येवं पूर्वोक्तरीत्या बलात्कारकरणप्रकारेणापडियेव सद्यः शीघ्र शिथिलत्वमाय सहजशिथिलतां जगाम न किन्तु भयेनेतीन शब्दवाच्यार्थः ॥ ६२ ॥
सद्यो विनिर्यान्तमधोंऽशुकं साबलम्बितुं लम्बितबाहुवंशा। बभूव तावत्सहकृत्तयेव कुचाउचलं निवजदेतदेव ॥६३॥
सद्यइत्यादि-सद्यो निष्कारणमेव विनिर्यान्तं निर्गच्छन्तमघोंऽशुकमवलम्बित स्तम्भयितु लम्बितौ प्रतितो बाहुवंशी भुजदण्डो यया सा तादृशी सुलोचना बभूव यावत्तावदेव सहकृत्तयेव सहकारिभावनयेव तत्तस्याः कुचाञ्चलं निर्यत् स्खलित बभूव ।। ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org