SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ५७-६० ] सप्तदशः सर्गः व्यर्थमेवाकुलिता भवसि, किन्तु तव तनो शरीरे उच्चस्तनेन समुच्छ्रितरूपेण कुचेन सम्यग्गुरुणा गुरुतरेण तेन हि तवावयवेन निषिद्धयते मुखं नीचः कतुं वार्यते किं पुनरन्येनास्मादृशेन । तथा तव तनौ लग्नकुण्डलके नीचैर्गतेन नीचस्थानस्थितेन येन केनापि ग्रहण दोषाणामाकरः स्थान तत्ता दूषणकारित्वमापि प्रकाशितं ततस्त्वमकेन दुःखेन खिन्नासि किन्तु उच्चस्तनेन परमोच्चस्थानस्थेन कर्कराशिगतेन गुरुणा बृहस्पतिना हितेन कल्याणकारकेण सम्यनिषिद्धयेते सा दोषाकरता निवार्यत इति ॥५६॥ पयोधरालिङ्गन एव कृत्वा समुत्करं गोमयमात्तसत्त्वात् । लसत्यथास्यामृतवारि कामधेनो ! त्वयारब्ध मिदं ललाम ॥५७॥ पयोधरेत्यादि-हे कामधेनो ! वाञ्छितकारिणि ! पयोधरालिङ्गन एवात्तसत्त्वात् सहजस्वभावात् गोमयं सदुक्तिरूपं पक्षे गोपुरोषसमुत्करं कृत्वा त्वयेवमस्य जनस्यामृतकारि आनन्ददायकं क्षीरसम्पत्ति वरं वा। अथ तत एवेदमारब्धं ललाम मनोहरं लसंति भाति आस्यामृतकारि हास्यकारकं वा। पयोधरालिङ्गने गोदोहनकाले गोमयगोमूत्रकरण गोस्वभावः ॥५॥ रते च ते संकुचतीह हृद्यत्कौमारमुत्सृज्य तु मेऽतिहृद्यम् । गुणानुरागी करमर्पयामि ह्यस्योपकारं न हि विस्मरामि ॥५८॥ रते चेत्यादि-हे रते ! रतिवद्रूपवति ! ते हृत् हृदयं यत् कौमार कुमारकालमुत्सृज्य संकुचति समीचीन कुच पूर्णमस्ति तथा कौमारं सुवर्णरूपत्वमुत्सज्य सम्वितीर्य संकुचति ततोऽथवा को पृथिव्यां मारं विघ्नं विहायेह संकुचति संकोचमञ्चति ततो में मां हृद्य प्रीतिकारकमस्ति । 'मारो विघ्ने मृत्यो स्मरे वृषे' इति विश्वलोचने । ततोऽस्योपकार सहिष्णुतालक्षणं न हि विस्मरामि किन्तु गुणानुरागी भूत्वा कृतज्ञतया करमुपहारस्वरूपं हस्तमर्पयामि ॥ ५८ ॥ श्रीः सा हृतानेन किलेति कृत्वा ममेभकुम्भस्य तदेकसत्वा । विमर्दयामास कुचाङ्कमस्याः स कामरामासुषुमैकमण्याः ॥५९॥ श्रीरित्यादि-तथा चानेन तव कठोरेणावयवेन ममेभकुम्भस्य हस्तिमस्तकस्य तस्यैवेकस्य सत्त्वमधिकारो यत्र सा तदेकसत्त्वा सा प्रख्यातप्राया श्रीः शोभा हता, इति कृत्वा स्वमनसि निधाय किल कामरामाया रतिदेव्या या सुषमा सुन्दरता तस्या येका मुख्या मषि: श्यामिका ततोऽप्यधिकसौन्दर्यतया तत्कोतिलोत्रीत्यर्थस्तस्या अस्याः सुलोवनायाः कुचाङ्क विमर्दयामास ॥ ५९॥ पयोभुवः स्पर्शकृतेति मन्ये कलप्रवालेन कुलीनकन्ये । तदेतदागोऽत्र विशोधयामि समर्प्य सन्मौलिमणि नमामि ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy