SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ८०२ जयोदय-महाकाव्यम् [५३-५६ नखैरखानीह पयोधरे तु समुद्गमः श्री परिणाहनेतुः । तृतीयसम्पौरुषपादमेतुमजानिहेतुः किल सैव सेतुः ।।५३॥ ___ नखैरित्यादि-इह सुलोचनायाः पयोधरे स्तनमण्डल एव समुद्रे श्रीपरिणाहनेतुः श्रियाः सम्पर्यः परिणाहो विस्तारस्तस्य नेतुः स्वामिनो जयकुमारस्य नखैः समुद्गमो यत्किञ्चिदप्युच्छूनवणसन्तानोऽखानि खनितः सैव किल तृतीयस्य सम्पौरुषस्य कामपुरुषार्थस्य समुद्रसदृशस्य पारमेतु गन्तु हेतुः कारणभूतः सेतुर्जलमार्गोऽजानि (अज्ञायि) ज्ञातस्तेन जयकुमारेणेति ॥५३।। सरोषदोषापनुदोऽपि वारिर्यतोस्ति लब्धा खल ते न खारी। सदक्षरा मजुपयोधराभूविलोकयामीत्युदिताक्षराभूत् ॥५४॥ सरोषेत्यादि-सरोषं रोषपूर्वकं यथा स्यात्तथा दोषामाश्लेषकर्तुर्भुजामपनुदति परिहरतीति तस्याः स्त्रियाः, हे खल ! निर्विचारकारिन् ! ते तव नखारी रलयोरभेदान्नखाली करजततिर्यतो यस्माल्लब्धा परिप्राप्ता ततो मम मञ्जू पयोधरौस्तनौ यत्र वंभूता भूर्वक्षःस्थली सन्ति सुस्पष्टान्यक्षराणि केलिप्रकाशकानि यस्यामेवंभूता जाता। तथा हे खल ! तिलकल्कविशेष ! यतस्ते खरी करज्जिका न लब्धा तत एव मञ्जु यथोचितं पचो दुग्धं धरतीति मजुपयोधराभूः गोस्थितिः सा सुष्ठु न क्षरति न दुग्धं ददातीति सदक्षरा जाता, इत्येव मुदितान्यक्षराणि यस्यां सा वारिगिभूत् ॥५४॥ एवं समुत्तानितजन्मपत्रामत्रासयन्नाह पुनः पवित्राम् । नवग्रहोत्साहमयोजयोऽपि न येन संलग्नकथा व्यलोपि ॥५५।। एवमित्यादि-एवं पूर्वोक्तरीत्या समुत्तानितं समुपलब्धं जन्म यस्तानि समुत्तानितजन्मानि पदानि त्रायते तां पवित्रा पुनरत्रासयन् किञ्चित्कालमसम्भुञ्जातः, नवे आहे नूतने समालिङ्गने उत्साहमयो जयोनाम नृपोऽप्याह कथितवान् येन संलग्नकथा समासक्तवार्ताऽऽलिङ्गनकरणप्रकारो न व्यलोपि न विस्मृतः। तथा चैवं समुत्तानितं विस्तारितं जन्मपत्र यया तां नवग्रहेषु सूर्यादिषत्साहमयस्तेषां संचारप्रकारपरिज्ञायक इत्यर्थो येन संलग्नस्य समुचितराशिसमुदयस्य कथा न व्यलोपि कुत्रस्थो ग्रहः कीदृशं फलं ददातीति यो जानाति स आह ॥५५॥ खिन्नास्यकेनासितकेशि नीचैर्गतेन दोषाकरतापि येन । निषिद्धयते किन्तु तनौ तवोच्चैस्तनेन सम्यग्गुरुणा हितेन ॥५६॥ खिन्नास्येत्यत्यादि-हे असितकेशि ! श्यामालकधारिणि ! येन तवाङ्गकेन दोषाकरता चन्द्ररूपता आपि समुपलब्धा तेनास्यकेन मुखेन नोचैर्गतेनाधाकृतेन त्वं खिन्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy